श्रीशुक उवाच ।।
इत्यादिश्याऽमरगणान् प्रजापतिपतिर्विभुः ॥
आश्वास्य च महीं गीर्भिःस्वधाम परमं ययौ ॥२६॥
इत्यादिश्यति ॥ अनेकविधा देवाः। ते च स्वस्वमुख्याज्ञाकारिणः ।
अत एव सर्वानेव गणपतीनाज्ञापितवानित्याह ।।
अमरगणानिति ॥ तर्हि ब्रह्मणः कथं नावतार इत्याशङ्क्याह ।
प्रजापतिपतिरिति ॥ प्रजापतीनां स नियन्ता । अन्यथा सृष्टिर्न
स्यादित्यर्थः । ननु साक्षाद्भगवता नोक्तमिति देवा न
करिष्यन्तीत्याशङ्क्याह ॥ विभुरिति ॥ ब्रह्मा स्वत एव समर्थो
देवानाज्ञापयितुम् । अनैनैव वृत्तान्तेन भूमिः कृतार्था जाता । तथापि
गीर्भिरपि महीमाश्वास्य स्वधाम सत्यलोकाख्यं ययौ ।
गीर्भिरिति भूमेः प्रशंसावाक्यानि बहून्युक्तानीति ज्ञायते । भूमौ
भगवदागमनं पूर्वं न सम्भावितमधुना जातमिति तद्भाग्याभिनन्दनं
युक्तमिति ।। २६॥
एवं भूमेः सान्त्वनमुत्का देवक्याः सान्त्वनं वक्तुं तस्याः प्रथमं दुःखप्रापणोपायमाह-
शूरसेनो यदुपतिर्मथुरामावसन पुरीम् ॥
माथुरान् शूरसेनाँश्च विषयान् बुभुजे पुरा ॥२७॥
शूरसेन इति दशभिः ।। सहस्रार्जुनस्य पुत्राणां मध्ये ये
पञ्चोर्वरितास्तेपां द्वितीयः शूरसेनः। यादवानां राज्यं ययातिना
निवारितम् । ततः पुष्ट्यैव राज्यम् । यो महान् भगवदंशो
भवति स राजेति ।। तत्र सहस्रार्जुनो भगवदंशः पुष्ट्या
राजा बभूव । स जीवन्नेव शूरसेनाय मण्डलद्वयं दत्तवान् मथुरा