पृष्ठम्:श्रीसुबोधिनी.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


स्थितमिति ज्ञापयितुमाह ॥ सहस्रवदन इति ॥ सङ्कर्षणो हि सहस्रवदनो वेदात्मा । शेषोऽपि केवलस्तथा भवतीति तद्व्यावृत्यर्थमाह ॥ स्वराडिति ॥ स्वर्गेऽपि राजते । सङ्कर्षणरूपः । यः सितकृष्णकेशः सः अग्रतो भविता । ननु तेनैव चरितार्थत्वे कि भगवदवतारेणेत्याशङ्क्याह् ॥ देव इति ॥ स हि देवरूपेणैवावतीर्णो, नाधिकं कार्यं करिष्यति । तर्हि किं तदवतारेणेत्याशङ्क्याह ।। हरेः प्रियचिकिषयेति । स हि भगवान् सर्वेषां दुःखहर्ता दैत्यानां सुखार्थे भूमारहरणार्थे च साहाय्यकरणाद् भगवतः प्रियं करिष्यतीति ॥ २४ ॥

एवं ससामग्रीकस्य गमने सर्वमुक्तिर्भविष्यतीत्याशङ्कायामाह--


 विष्णोर्माया भगवती यया संमोहितं जगत् ॥
 आदिष्टा प्रभुणांशेन कार्यार्थे संभविष्यति ॥२५॥


 विष्णोरिति ॥ यो हि विष्णुर्मायोद्धाटनेनावतरिष्यति सा तदंशभूता माया कार्यार्थे भविष्यति । साऽपि भगवती षड्गुणैश्वर्ययुक्ता । भगवत्मसादात् । अतस्तस्याः स्वस्थानत्यागेन गमनेऽपि न दोषः । अत्रापि स्थास्यति कार्यमपि करिष्यतीति । सर्वमुक्त्यभावश्च तत एव भविष्यतीत्याह ॥ यया संमोहितं जगदिति ॥ कदाचित् तस्या अनागमनशङ्कां व्यावर्त्तयति ॥ आदिष्टा प्रभुणेति ॥ अनेन यत्र सर्वव्यामोहिका भगवदाज्ञयाऽवतीर्णा, तत्र के भवन्त इति गर्वाभावोऽपि ज्ञापितः । कार्यं यशोदायाः स्तन्यं, संकर्षणं, कंसादिव्यामोहो, वसुदेवादिमोचनमिति ॥ २५ ॥

एवं सर्वान् ज्ञापयित्वा ब्रह्मा ततो निर्गत इत्याह-