भगवदवतरणात् पूर्वमेव सेवासावधानार्थ भगवच्छय्यारूपस्य
शेषस्य सङ्कर्षणसहितस्यावतारमाह--
वासुदेवकलानन्तः सहस्रवदनः स्वराट् ।।
अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥२४॥
वासुदेवेति ॥ साविकेषु तु कल्पेषु यः शेते सलिले
हरिः । वासुदेवः स विज्ञेयस्तस्यांशोऽनन्त उच्यते ॥ कालात्मा
च स विज्ञेयो भूभारहरणे प्रभुः * तत्र सुप्तो हरिश्चापि तदाविष्टो
भविष्यति ॥ अतोऽनुशयनं विष्णोबलभद्रेण नात्मनः * एकवत्
प्रोच्यते कृष्णो द्विवल्लोकैः प्रतीयते ॥ देवक्यां शयनस्यैव
सम्भवो न हरेः स्मृतः ।* रोहिण्यामपरस्येति कर्षणान्नैव हीनता॥
तं सङ्कर्षणमन्यस्माद् भिन्नतया ज्ञातुं विशिनष्टि ॥ वासुदेवस्य प्रथमतः कला धर्मरूपः । सोऽपि शयनरूप इत्यनन्तः । कालात्मा स हि स्वाऽऽश्रय एव शेते । तत्राधिदैविकरूपमपि
तदाविष्टस्तस्मिन् सङ्कर्षणे आविष्ट इत्यर्थः । अत्र पूर्वं शय्यारूपे
सङ्कर्षणे शयानस्यावतारदशापन्ने तस्मिन्नावेशरूपा स्थितिरनुशयनं
भवति । तथाचानुशयनस्यैव स्कन्धार्थत्वाद्वलदेवाविष्टचासुदेवकलाया
एव लीला स्कन्धार्थः स्यादित्यत आह ॥ अत इति ॥ यतः
शयानस्यावेशोऽतो हेतोर्विष्णोः सात्त्विककल्पाधिष्ठातुरेव बलभद्रेण
कृत्वाऽनुशयनमुच्यते, नात्मनः पुरुषोत्तमस्य नेत्यर्थः।
निरोधोऽस्याऽनुशयनमात्मन इति मूलवाक्यादिति भावः । तेन
नोक्तदूषणमिति भावः। तर्हि बलदेव एवं निरूपणे किं तात्पयं
तदाह ॥ एकवदिति ॥ पूर्वोक्तवासुदेवस्यांशत्वादंशाशिनोश्च
तादात्म्येनाभेदादेकवदेव प्रोच्यते । तेन तत्रापि तथा निरूपणमित्यर्थः ॥
अतस्तश्चरित्रमपि मूलरूपचरित्रमेवेति भावः । नन्वेवं लोके न प्रतीयत
इत्यत आह ॥ कृष्ण इति ॥ यथांशत्वेनैक्येऽपि स्वरूपे द्वैविध्यप्रतीतिस्तथा
चरित्रेऽपीत्यर्थः ॥ अत एव यथा चतुयूँहरूपेण प्राकट्यं मथुरायां
पुरुषोत्तमस्य व्रजे तथाऽत्रापीत्याह, देवक्यामिति ॥