भविष्यतीति तन्त्रोक्तम् । भगवानपि कियत्कालं
स्थास्यतीत्याशङ्कायामाह । उर्व्या भरं स्वकालशक्त्या यावत्
क्षपयँश्चरेदिति ॥ तदपि कियत्कालमित्याशङ्कायामाह ॥
ईश्वरेश्वर इति ॥
ईश्वर एव स्वच्छन्दचारी । तेषां सर्वेषां कालादीनामपि य
ईश्वरः । स कथं नियन्तुं ज्ञातुं वा शक्यते । एतावत्कालं
स्थास्यतीति । अनेनैव नियतभोगयुक्तानां देवानामकरणशङ्काऽपि
व्यावर्त्तिता । दैत्या अस्मान् मारयिष्यन्तीति न शङ्कनीयम् ।
यतः स्वकालशक्त्यैव भारं दूरीकरिष्यति ॥ चरेदिति ॥ भारभूता
दैत्या नैकत्र तिष्ठन्तीति, तदर्थं चरणम् । कालनियमस्य
चाज्ञानम् । अज्ञातस्तु न भविष्यतीत्याह । भुवीति ।। न हि
भूमौ जातोऽलौकिकं करोति ॥ २२॥
तथापि क्वावतरिष्यतीत्याकाङ्क्षायामाह--
वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः ॥
जनिष्यते तत्प्रियार्थ संभवन्तु सुरस्त्रियः ॥२३॥
वसुदेवगृह इति। तस्याप्यंशावतरणव्युदासायाह ॥
साक्षाद्भगवानिति ॥ न तु चक्रादिरूपेण, सत्त्वव्यवधानेन
वावतारः । भगवच्छब्दो गौणेष्वपि वर्त्तत इति । तद्व्युदासार्थं,
पुरुषः पर इति । पुरुषोत्तम इत्यर्थः । ब्रह्माण्डात् परस्य कथनादर्थादेव
प्रकृतिप्रवर्चकः समागतः । ततः परस्तु पुरुषोत्तम एव । स च
जनिष्यते । अतस्तत्प्रियाथं तत्सेवार्थं सुरस्त्रियः सम्यक्
सर्वसौन्दर्यपुरःसरं तस्य योग्यस्थानेषु सम्भवन्तु । सुरस्त्रियोऽप्सरसो
लक्ष्म्या सहिताः समुद्रादुत्पन्नाः। तासां भोगो भगवता न कृत
इति स्वजन्मसाफल्यार्थमेव तासामवतरणम् । तत्प्रियामिति
बचनाद्देवानां स्त्रीत्वेनावतरणं निवारितम् ॥ २३ ॥