पृष्ठम्:श्रीसुबोधिनी.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
जन्मप्रकरणम् । १ । अध्यायः । १ ।


स्तथैवांशावतरणं विधीयतामित्यर्थः । तथैवेति ॥ यो देवो यावतांशेन जातः । पौर्वापर्येण वा । पूर्वं दशरथो नावतीर्ण इति । आज्ञया तमवतार्य षष्टिसहस्रवर्षानन्तरं स्वयमवतीर्णः । अतो विलम्बः । तां शङ्कां प्रकृते वारयति ॥ चिरं मेति ॥ २१॥

 ननु त्वया किमुक्तं, किं वा भगवतोक्तमिति शङ्कां दूरीकुर्वन् पूर्वं वानरेष्ववतारं प्राप्य खेदो भूयान् प्राप्त इति देवाशङ्कां च परिहरन् भगवदुक्तमाज्ञापनमाह-


 पुरैव पुंसाऽवधृतो धराज्वरो
 भवद्भिरंशैर्यदुषूपजन्यताम् ॥
 स यावदुर्व्या भरमीश्वरेश्वरः
 स्वकालशक्त्या क्षपयँश्चरेद् भुवि ॥ २२॥


 पुरेवैति।।भूमेः पीडाकथनात् पूर्वमेव भगवता धराज्वरोऽवधृतो निश्चितः । तत्र हेतुः॥ पुंसेति ॥ पुरुषो हि भार्यां स्पृशति । ज्वरस्तु स्पर्शमात्रेणैव ज्ञायते । अतोऽस्मत्कृतं ज्ञापनं नापेक्षितम् । अतो भगवान् मद्वाक्यात् पूर्वमेव स्वयमेवोक्तवान् । आज्ञामाह ।। भवद्भिरिति ।। भगवानग्यवतरिष्यति । ततः पूर्वमेव भवद्भिरुपजन्यताम् । भगवज्जननसमीपे जन्यताम् । आवश्यकत्वायांशैरिति । भवन्तो हि भगवदंशा हस्तपादादय इव सेवकाः । प्रभुः ससेवक एव सर्वत्र गच्छति । पूर्वस्माद् वैलक्षण्यं, यदुष्विति ॥ भगवानपि यदुष्ववतरिष्यति । अतो लोके प्राकट्याभावाय समीपे जन्यतामित्याज्ञा । इदं जननं सेवार्थत्वात् स्थितिपूर्वकम् । तत्र कियत्कालं स्थातव्यमित्याकाङ्क्षायामाह ॥ स यावदिति ॥ यावत् स भगवान् यदुषु चरेत्तावदुपजन्यताम् । समीपे स्थातव्यम्। जननं पुत्रपौत्रादिरूपेणान्तमुत्यत्त्यर्थमुक्तम् । स्थितिस्त्वर्थादेव-