ननु पुरुष एव तथा सत्यऽवतरिष्यतीत्याशङ्क्य
तन्निराकरणपूर्वकं भगवत उत्तरं जातं स्वान्तःकरणे उपलभ्य
अतिमूक्ष्मस्वाद्देवानामगम्यं तान् ज्ञापितवानित्याह-
गिरं समाधौ गगने समीरितां
निशम्य वेधास्त्रिदशानुवाच ह ॥
गां पौरुषीं मे शृणुताऽमराः
पुनर्विधीयतामाशु तथैव मा चिरम् ॥ २१ ॥
गिरमिति ॥ समाधौ यो भावितो भगवान् सलोकः ।
तत्राकाशे भगवद्वाक्यं भगवतोक्तं श्रुतवान् । तत्र प्रमाणमाह ।।
वेधा इति । अन्यथा कथं विदधाति भगवदाज्ञाव्यतिरेकेण ।
ननु देवा अपि ब्रह्मतुल्याः कथं न श्रुतवन्तस्तत्राह ॥ त्रिदशानिति ॥
तिस्रो दशा येषां, बाल्यं कौमारं यौवनमिति । अनेन
तेषामुत्पत्त्याज्ञापि युक्ता भवतीति ज्ञापितम् । अकस्मात् क्षणं
स्थित्वा किश्चिद् विचार्य उक्तवानिति सर्वेषामाश्चर्यं हेत्याह ।
स्वतः कथनं वारयति ॥ पौरुषीमिति ॥ गामित्यखण्डनाय ।
तस्या वाचो दोग्धृत्वाय च । म इति प्रमाणार्थम् । न हि
ब्रह्मवाक्यमन्यथा भवति । पुरुषसम्बन्धिन्येव मत्तो वा श्रोतव्येति ।
आदौ भगवत आज्ञापनमाह ॥ अमरा इति ॥ प्रथमतः श्रुत्वा
पुनः पश्चाद्विधीयताम् ॥ चिरं मा विलम्बो न कर्त्तव्यः। सामग्रीमेव
संम्पादयितुमादौ बोधयति, पश्चाद्वक्ष्यत्याज्ञाम्। अग्रे च
वक्तव्यमंशावतरणम् । तद्देवानां मरणानन्तरं भवतीति शङ्काव्युदासाय---
अमरा इति सम्बोधयति ॥ शृणुतेति ।। सावधानार्थं वचनम् । पुनःपदं
च पूर्व रामावतारे रावणभीतेन ब्रह्मणा पूर्वमपि देवा आज्ञप्ता
अंशावतारणार्थमिदानीमपि तथैवाज्ञेति ज्ञापनाऽर्थम् । पूर्व
विलम्बेन कृतम् । तद्व्युदासाऽऽश्विति ॥ पुन-