वासक्त एव भूम्युपकारं करिष्यतीति ज्ञापनार्थं च ॥ १९ ॥
तत्रापि भगवतस्तिरोभावात् स्तोत्रं कृतवानित्याह--
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ॥
पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः॥ २० ॥
तत्र गत्वेति ॥ गमनमात्रेणैव स्तोत्रं कृतवानिति
ज्ञापनाऽर्थं गत्वेत्यनुवादः। तत्र गत्वा समाहितो योगारूढः
पुरुषमुक्तेन उपतस्थ इति सम्बन्धः । स्वयं कथं न प्रतीकारं
कृतवानिति शङ्काभावायाह ॥ जगन्नाथमिति ॥ जगतां स एव
नाथस्ततः स्वस्याकरणम् । ननु जगन्नाथत्वे दैत्यानामपि नाथ
इति प्रतीकारं न कुर्यादित्याशङ्क्याह ॥ देवदेवमिति ।।
देवानामपि स एव देवः । देवैर्दीव्यतीति वा । प्रजापतेः
प्रजापतिरग्नेरग्निः सूर्यस्य सूर्य इति । अतो देवानां
भगवानाधिदैविकरूप इति न दैत्यहितं करिष्यतीति भावः ।
जगन्नाथो मर्यादया । सांप्रतं दैत्यानामतिक्रमान्न पक्षपातः ।
ननु भूमे रसातलगमनेऽपि स्वर्गे देवैः सह क्रीडा देवहिताचरणं
च सम्भविष्यतीत्याशङ्क्याह । वृषाकपिमिति ॥ वृषो धर्मो
यज्ञादिरूपः । तस्यासमन्तात् कं सुखं फलं स्वर्गादि तत् पिबतीति
सर्वयज्ञफलभोक्ता । भूम्यभावे ततो यज्ञाऽभावः । देवानां च देवत्वं
यज्ञफलभोगादेव। नन्वदृष्टोऽसंनिहितश्च कथं स्तूयत इत्याशङ्क्याह ।
पुरुषमिति । स हि स्वहृदय एवं वर्तते । पुरुषो वा नारायणः
स्वपितेति ततः कार्यावश्यम्भाव इति ज्ञापनार्थं, पुरुषसूक्तेनेति ।
वैदिकेन भगवत्प्रेरणया प्राप्तेन भगवतोऽतिप्रियेण । पुरुषसूक्तं च
तेजोमयम् । उपस्थानविद्यया तेजोमयः परितुष्यतीत्यन्तयामिपुरःसरं
स्तोत्रकरणात तत्सूक्तेनैव स्तोत्रमुचितम् ॥ २०॥