समवोचतेति सम्बन्धः । अश्रूणि अप्रोञ्छितानि निरन्तरं प्रवृत्तानि मुखे
समयान्ति । अन्तःखेदात्मके तापे स्वेद एवाश्रूणि
भवन्ति । खेदोऽपि ज्ञानजनितश्चेत्तदा ज्ञानद्वारा नेत्रयोर्निर्गतः
स्वेदोऽश्रुशब्देनोच्यते । दैत्यानामभिप्रायज्ञानेन शोकः।
अन्तःस्थितधर्मविसंवादि वाक्यमप्रमाणमिति धर्मप्राकट्यपूर्वकं
धर्मकथनम् । बहूनां तादृशानां सम्भवान्निारार्थं कथनम् ।
अधिकारित्वादविचारदशायां न सर्वज्ञतेति युक्तं कथनम् ॥ खिन्नेति ॥
दुःखसन्ततिरत्यन्तं निरूपिता । दौर्बल्यं कान्त्यभावश्च तस्य
ज्ञापकौ । तस्यास्ततोऽन्योपायबोधननिवृत्त्यर्थं तथोक्तम् । रोदनं
शब्दात्मकं करुणं यथा भवतीति पितृवियोगजनितखेदाभावाय ।
अधिकारित्वात् कार्यान्तरव्यावृत्त्यर्थं रोदनम् ॥ विभोरिति
ब्रह्मणः सामर्थ्य प्रतीकारे द्योतितम् । उप समीपे
भगवत्येवाऽन्तर्यामिणि स्थिता । बहिरन्तिके स्थिता ब्रह्मणः ।
व्यसनमपतीकारदुःखं स्वं सम्यगवोचतेत्यर्थः ।। १८ ।। ।। ॥
ततो ब्रह्मा दैत्यसम्बन्धित्वाद् भूमेः
सहायार्थमाऽऽकारणशङ्काव्यावृत्यर्थमालोचनज्ञानेन
तदुक्तार्थं निश्चित्य प्रतीकारं कृतवानित्याह---
ब्रह्मा तदुपधार्याथ सह देवैस्तया सह ॥
जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः ॥ १९ ॥
ब्रह्मेति ॥ ब्रह्मत्वात्तथा सामर्थ्यं ज्ञानात्मकत्वात् ॥
अथेति ॥ स्वनिश्चयानन्तरं, न तु भूमिवाक्यमात्रे । देवानां
नयनमाज्ञापनार्थम् । आलोचने प्रतीकारं ससाधनं ज्ञातवानिति ।
महादेवस्य नयनं दैत्यानामुपायान्तरोपदेशाभावाय । भूमेनयनं
निमित्तज्ञापनाय । अत एव, त्रिनयनपदम् । त्रिष्वपि
देवदैत्यमनुष्येषु नयनं यस्येति । श्वेतद्वीपं भगवतः प्रियं धामेति ।
व्यापिवैकुण्ठद्वारस्य तत्र नैकट्याद्वा क्षीरपयोनिधेस्तीरं जगाम । भूमा-