वदधुनापि करिष्यतीति तत्र गमनम् । भूमिर्वस्तुतो दैत्यानाम् ।
यावदासीनः परापश्यति तावद्देवानामतस्तावद्रूपेण देवोपयोगिना
गमनम् । शीघ्रं बाधाभावाय । कार्यावश्यकत्वाय च शरणगमनम्।- .
दैत्याः सर्वे मायादेवताः कापट्येनैव भूमिं रसातले नेतुं
राजरूपेणावतीर्णाः। राज्ञां दैत्यत्वज्ञापकं लक्षणं दृप्तत्वमुच्छास्त्रवर्तित्वम् ।
एतदेव सर्वत्र लक्षणम् । हता अमुक्तास्ते देवेष्वऽपि प्रविष्टा इति देवा
अपि तथा । अतस्तेऽप्यन्ते निराकृताः । अवतारे तद्धर्मा भविष्यन्तीति,
तद्व्यावृत्यर्थमाह ॥ व्याजेति ।। ते च दैत्या नोपभोगार्थमागताः, किन्तु
घातार्थमिति ज्ञापयितुमाह । अनीकेति ॥ दैत्यानामनीकानि तेषां
शतान्यसंख्यातानि। तानि चायुतान्यमिलितानि तत्र तत्र पुञ्जीभूय स्थितानि ।
अत एवासमन्तात् क्रान्ता यथा सर्वतश्च शीघ्रं निमग्ना भवति ।
भूरिभारेणाक्रान्ता । दैत्यत्वं भारजनकत्वम् । यथा उन्मत्त एकोऽपि
नौकारूढो नौकां मज्जयति । बलाक्रमणे च भारः । पूर्वं ब्रह्मणा
उद्धारे उपायः कृत इति ब्रह्माणं शरणं ययौ ॥ १७॥
रूपान्तरेण गमनं देवानां हितकारी न भवतीति हविर्द्धानीरूपेण गतेत्याह---
गौर्भूत्वाश्रुमुखी खिन्ना रुदन्ती करुणं विभोः ॥
उपस्थितान्तिके तस्मै व्यसनं समवोचत ॥१८॥
गौर्भूत्वेति ॥ गौर्भूत्वा अन्तिके उपस्थिता तस्मै व्यसनं
त्मातृदास्यं दैवपक्षे परमोत्कर्षः । अयं चासुर इत्यसहमानत्वम् ।
एवमविरोधः पूर्वापरयोः । कालो पत्र प्रतिबन्धको जात इत्यत्रपदस्य
दैवानुगुणत्वे कंसस्येत्यर्थों ज्ञेयः । तथा सति मातुर्दुःखासम्भवेन
मातृत्वमेव न स्यादिति भावः ॥ अतस्तेऽप्यन्त इति ॥ भीष्मादय
इत्यर्थः ॥ तद्धर्मा इति ।। नृपधर्मा इत्यर्थः ॥