प्रादुर्भावाय वै हरेः । आकाशवाणीवाग्देवः सर्वमुक्त्यर्थमुद्गतः ॥
अशक्तः सँस्तथा चक्रे तथा नारद एव हि । दशभिः सान्त्वनं
भूमेः पञ्चत्रिंशत्तमैस्तथा । अष्टभिनारदोत्त्यैव सर्वेषां दुःखमञ्ज-
सा ॥ तत्र दशभिर्भूमिसान्त्वनं वाचा उपायेन देवक्याः पञ्च-
त्रिंशद्भिस्ततोऽष्टभिः सर्वेषां दुःखं भगवदवतारार्थं हेतुभूतमुच्यते ।
उद्यमः स्वदुःखनिवेदनेन, दैन्यम् । ततो भक्तानां भगवत्समीप-
गमनम् । निवेदनार्थं स्तोत्रम् । ततो भगवद्वाक्यनिवेदनम् ।
शब्दतस्तदर्थश्चतुर्भिर्विवृतः । क्रियाजन्मसङ्कर्षणमायाभिस्तत
उपसंहार इति । तत्र प्रथमं भूमेरुद्योग उच्यते । व्यापिवैकुण्ठ एव
हरिः प्रकटः । अन्यत्र सर्वत्र गुप्त इति । भगवत्स्थाने न गता
भूः । ब्रह्मणा च जनिता । अत उपायकरणार्थमेव भूम्युद्धरण-
चाऽनाविर्भावे निरोधपदार्थ एव न स्यादिति भावः । यद्वा, यतः
संसारभवदुःखव्यावृत्तिरेव निरोधप्रयोजनमतो निरन्तरं
भगवत्स्मरणात्मको निरोधो दैवासुरसाधारणो निरूप्यत इत्याहुः॥ संसारेति ॥
स्मृतिश्च क्वचित् स्नेहात् कचिद् द्वेषादिनेति परं विशेषः। एकं
पूर्वोक्तमित्यर्थः । अथवा यतो लीलानुपयोगिसंसारवतां संसृतिरपि
दुःखरूपाऽतोऽधिकारिभेदेन विरोधाभावाद् दुःखनिवृत्तिः संसार-
निवृत्तिश्चेति द्वयमपि फलमित्युक्तमित्याहुः ॥ दुःखरूपा च संसृतिः,
द्वयं वा न विरुद्ध्यत इति ॥ एवमनुक्तौ दुःखरूपेत्याद्यनर्थकं स्यात्
केषाश्चिद्भक्तानां दुःखमेव निवारितम् । अहम्ममात्मकः संसारस्तु
लीलोपयोगित्वेन स्थापित एव । केषाञ्चिद्भक्तानामन्येषां च संसारो-
ऽपि नाशितः । तेन द्वयमपि फलमित्यर्थः । नन्वाधिदैविकप्रवर्तनं
विना वाण्युद्गमासम्भवे भक्त दुःखहेतुवाणी स कथं प्रवर्तितवा-
नित्याशय तत्तात्पर्यमाहुः ॥ सर्वमुक्त्यर्थमिति ॥ हर्याविर्भाव विना
सा न भवतीति स्वयं तं कर्तुमशक्तस्तद्धेतुहेतुं चक्र इत्यर्थः ॥
तदनुगुणदेवतायास्तदुत्कर्षमसहमानाया इतिरूपेऽग्रिमग्रन्थे तत्पदाभ्यां
कंस एवोक्त इति ज्ञेयम् । मुक्तिहेतुत्वेन तदनुगुणत्वम् । भगव-