तेपामुद्धारकः कृष्णः स्त्रीणामत्र विशेषतः ॥ येषां निरोधकं
शास्त्रं योगादि विनिरूपितम् । शेषभावस्तत्र हरेने कदाचिद्
गमिष्यति ॥ संसारदुःखव्यावृत्त्यै निरोधोऽत्र निरूप्यते ।* अतो
निरोधो ज्ञानात्मा दुःखरूपा च संमृतिः।। एवमेकं फलं प्रोक्तं
द्वयं वा न विरुद्ध्यते । साङ्गस्य प्रक्रिया युक्ता ततः स्कन्धोऽपि
युज्यते ।। अवतारो निरोधाङ्गं तदङ्गं दुःखमेव च । धैर्यार्थं
सान्त्वनं प्रोक्तं भूमिमात्रोर्न चान्यथा ॥ अन्ते दुःखं भक्तकृतं
तानामित्यर्थः । ननु ससाधनानामपि कथं न विषयत्वमित्याशङ्क्य
तत्र बाधकमाहुः ॥ येषामिति ॥ किञ्च, एतेषां निरोधपदार्थोऽपि
पूर्वस्माद्विलक्षणोऽतोऽपि न विषयत्वमित्याहुः ॥ संसारेति ॥ अत्र
ससाधनेवित्यर्थः ॥ निरूप्यते ॥ त्वयति शेषः । तथाच
संसारस्याऽविद्याकार्यत्वेन तन्निवृत्तेश्च ज्ञानैकसाध्यत्वेन तद्रूप एव निरोधस्तेषां
वाच्य इत्याह । अत इति । तथाच बह्वेव वैलक्षण्यमिति
भावः ॥
किञ्च । भक्तानां संसारो लीलोपयोगित्वेन सुखरूपस्तेषां तु दुःखरूप इतीतोऽपि तद्वैलक्षण्यमित्याहुः॥ दुःखेति ॥ प्रासङ्गिकमुत्ता पूर्वोक्तमुपसंहरन्ति ॥ एवमिति ॥ एकं निःसाधनानां भगवत्प्राप्तिलक्षणमित्यर्थः । ननु भगवत्कृतनिरोधो न शास्त्रैर्जनयितुं शक्य इति पूर्वोक्तशेषभावासम्भवात् ससाधनानामपि विषयत्वं वक्तुं युक्तम् । अत एव, तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगवितानार्थं कथं पश्येमहि स्त्रियः, इतिपृथावचनमपि गीयतइत्याशयेन पक्षान्तरमाहुः॥ द्वयं वेति ॥ उभयोनिरोधस्यैकरूपत्वेनोक्तचैलक्षण्याभावात्तथेत्यर्थः ॥ एवम्प्रकारेण लीलाकरणे कथने च हेतुमाहुः ॥ साङ्गस्यति ॥ निरोधस्येति शेषः । अत्रोपपत्तिमाहुः ॥ तत इति ॥ यतश्चिकीर्षितनिरोधमवतीर्य स्वयं कृतवानतो हेतोरयं स्कन्धो दशमत्वेन युज्यत इत्यर्थः ॥ अन्यथाऽनवतीर्यैवाम्बरीषादेरिवात्रापि भक्तदुःखनिवारणोक्तौ भक्तकथैवोक्ता भवतीति ईशानुकथैवेयमपि भवेदित्यस्य स्कन्धस्य दशमत्वं न स्यादिति भावः ॥ अङ्गमाहुः ।। अवतार इति ॥ येन विना यन्न सम्भवति तत्तदङ्गमत्रोच्यते । तथा-