पृष्ठम्:श्रीसुबोधिनी.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


शयतीति ज्ञायते । अतस्त्रीन् पुरुषान् पुनातीति युक्तं, तदाह ।। हीति ॥ प्रश्नकर्तुः पितृपितामहादयो भविष्यन्तीति तद्व्यवृत्त्यर्थं र्गणयति ।। वक्तारमिति ॥ वक्तारमुत्तरस्य । पृच्छकः प्रश्नकर्ता । श्रोता मध्यस्थः । यद्यपि श्रोतृत्वं पूर्वयोरप्यास्ति, तथापि निमित्तं भिन्नमिति तदेव प्रयोजकत्वेनोक्तम् । पुरुषपदं पूर्ववत् ।अत्र कार्यान्तरार्थान् वारयति ॥ त्रीनिति ।। पावित्र्यमनेकविधं सम्भवतीति तद्व्यवृत्त्यर्थं पावनं विशिनष्टि दृष्टान्तेन ॥ तत्पादसलिलं यथेति ।। प्रश्नः कचिदुद्गतः । कश्चित् प्रेरितवान् । कञ्चिदभिमुखीचकार । नैतावता परमः पुरुषार्थः सिद्धः । यदा पुनस्त्रयाणां चित्तं भगवदेकनिष्ठं करोति तदा सफलता ॥ गङ्गा च पुनः साक्षाद्भगवत्सेवौपयिकं शरीरमुत्पादयति पूर्वसम्बन्धिनं पापं तत्कार्य नाशयित्वा । तथा भगवत्कार्योपयोगि चित्तं यावत्या भवति । तावतीं शुद्धिं करोतीत्यर्थः।त्रीन् त्रिलोकस्थान् सात्त्विकादिभिन्नान् वा कूलद्वयास्थितान्मध्यस्थान् वा, ब्रह्माणं महादेवं भगीरथं च वा ॥१६॥

 एवं भगवत्सम्बन्धित्वेन प्रश्नमभिनन्द्य भगवदवतारप्रयोजनज्ञानार्थं कथामारभते--


 भूमिर्दृप्तनृपव्याजदैत्याऽनीकशताऽयुतैः॥
 आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥१७॥


 भूमिरिति ॥ भक्तानां दुःखनाशाय कृष्णावतरणं मतम् ॥* भूमिर्माता तथाचान्ये भक्ता वै त्रिविधा मताः ॥ सर्वेषां च महद्दःखं नान्येन विनिवार्यते ॥* यदा तदा हरिः कृष्णः प्रादुरासीदिति स्थितिः ।। ये भक्ताः शास्त्ररहिताः स्त्रीशूद्रद्विजबन्धव:*



 उद्धारविषयनिर्धारमाहुः ॥ ये भक्ता इति ॥ शास्त्रीयसाधनरहि-