पृष्ठम्:श्रीसुबोधिनी.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
जन्मप्रकरणम्अध्ययः


स च लौकिकः । ऋषिवैदिकधर्मनिष्ठः । स चासौ सन् भगवद्धर्मनिष्ठः । तत्राप्युत्कर्षों भगवदङ्गीकारात् । अत एव तवैतादृशो व्यवसाय उचित इति भावः । द्विधा च निश्चयः सम्भवतिशास्त्रार्थनिश्चयात् , स्वरुच्या वा । तत्राद्यो मध्यमः । त्वं तूत्तम इत्याह ॥ वासुदेव इति ॥ यस्मात् कथायां रतिज्र्जीतेति । साऽपि न चञ्चला, न केनाप्यन्यथाकर्तुं शक्या । निश्चयस्य सम्यक् पोषिका रतिः । यस्मान्निश्चयाद्वासुदेवकथायां रतिर्ज्जातेति वा । अथवा हेतुद्वयं राजाभिनन्दन एव । दुर्लभत्वं कथारतेर्वदन् कारणभूतं निश्चयमाह । साध्यसाधनयोर्निष्पन्नत्वात् सभाजनम्। प्रश्नेन चैवम्भावस्तस्याभिज्ञातोऽतोऽर्थात् प्रश्नएव स्तुतः॥१५॥

 प्रकारान्तरेणापि साक्षात् प्रश्नं स्तौति---


 वासुदेवकथाप्रश्नः पुरुषाँस्त्रीन् पुनाति हि ॥
 वक्तारं पृच्छकं श्रोतृंस्तत्पादसलिलं यथा ॥१६॥


 वासुदेवेति ॥ वासुदेवस्य मोक्षार्थत्वात् तत्सम्बन्धि यत्किश्चिद् वस्तु तत् पवित्रयत्येव । तत्रापि कथा तत्सम्बन्धिगुणदोषाभिनिवेशजनिका। तत्रापि प्रश्नः, तज्जिज्ञासया दाढ्यहेतुः ॥ त्रीन् पुरुषान् ॥ प्रश्नानन्तरं कश्चिद्वक्ता, कश्चिच्छ्रोता मध्यस्थः, प्रश्नकर्ता च त्रयो भवन्ति । स्तब्धचित्ततया पूर्वं वक्ता भगवद्गुणाभिज्ञोऽपि तूष्णीं स्थितः । तत्र भगवद्गुणेषु तूष्णीम्भावः पापादेवेत्यध्यवसीयते । प्रश्ने च यदुद्गता भवन्ति गुणास्तत्पापनाशादेव । श्रोतृणामपि विद्यमाने पापे भगवत्प्रवणं चित्तं न भवतीति, प्रश्ने च जायत इति तत्पापनाशकत्वमपि । प्रश्नं करिष्यामीति यदा मनसि प्रश्न उद्गतस्तदा पापे विद्यमाने मुखान्न निःसरति । यदा पुनर्निःसरति तदा तस्यापि पापं ना-