भगवान् स्वयमुत्तरं प्रयच्छति कथमित्याशङ्क्याह ।।
विष्णुरातमिति ॥ अथेति भिन्नोपक्रमे । एतावत्कालं शुकः स्वयमेवाह ।
इदं चरित्रं तु तत्र स्थितो भगवानेवाऽऽहेति भिन्नः प्रक्रमः ।
विष्णुना एतदर्थमेव रक्षितः । अन्यथा पुरुषार्थो न सिद्ध्यतीति
किं रक्षणेन । श्रवणे निमग्नचित्तत्वात् प्रत्यर्चनम् । पूर्वं शुकः
स्तुतः । तेन शुकोऽपि तमग्रे स्तौतीति प्रत्यर्चनम् । पूज्यो हि
भगवान् , तद्गुणाश्च । ते चोभयत्र पूर्णा इति परस्परं पूजा ।
एवमेव भगवत्कथायां परस्परार्चनं शास्त्रसिद्धम् । येऽन्योन्यतो
भगवता इति वाक्यात् । एतावदुद्योगस्य फलमाह ॥ कृष्णेति ॥
अवतारचरित्रत्वेनालौकिककत्वमुक्तम् । पापस्य प्रतिबन्धकत्वान्नत्र
श्रद्धा भविष्यतीत्याह ॥ कलीति ॥ षण्णां शोधकानां
देशादीनां धर्महेतूनां चाभावाच्चरित्रमेव शोधकम् । अन्यथा
युगे धर्मप्रवृत्तिमोक्षो वा न स्यात् । महता प्रक्रमेण समारम्भे
हेतुः । भागवता एव प्रधानं यस्येति । विशेषेणाहर्तुं वक्तुमारम्भं
कृतवान् । अत एव मननपरित्यागेन कथामेव कथयति, सभाजयति
च तामेव, न ज्ञानादिकमिति भावः ॥ १४ ॥
समानशीलव्यसनं दृष्ट्वा राजानं चाभिनन्दति द्वाभ्याम्--
श्रीशुक उवाच ॥
सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ।
वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५ ॥
सम्यागिति ॥ भगवति लयात् पूर्वं स्थिरमज्ञतैव सर्वोत्तमा । सम्यग् व्यवसायं भगवत्कथैव श्रोतव्या, नान्यत् किञ्चिदित्यध्यवसायं प्राप्ता । ब्रह्मर्षीणामप्येतद् दुर्लभं, तब तु जातमित्याश्चर्येण सम्बोधनम्-- राजर्षिसत्तमेति ।। राजा स्वधर्मनिष्टः।