पृष्ठम्:श्रीसुबोधिनी.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
जन्मप्रकरणम्। १ । अध्यायः। १।


गृहीतः । असङ्कोचान्मुक्तिरेव फलति । अतस्त्वमेव मोक्षदातेति वक्ता स्तुतः ॥१३॥ शौनकादीन् सावधानतयाभिमुखान् करोति सूतः-.

सूत उवाच ॥


 एतं निशम्य भृगुनन्दन साधुवादं
 वैयासकिः सभगवानथ विष्णुरातम् ।।
 प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं
 व्याहर्तुमारभत भागवतप्रधानः ॥ १४ ॥

 एतमिति ॥ परस्पराभिनन्दनेनायमर्थः स्फुरतीति तथा प्रतिपाद्यते । एतस्य प्रश्नस्य मूलत्वात् प्राधान्येन निर्देशः ।। एतमिति ।। पुनः पुनः प्रश्ने वक्तुरुद्वेगः सम्भवति । आक्षेपे क्रोधः। तदुभयं निरस्यति ॥ निशम्यति ॥ नितरां श्रुत्वा, अर्थतोऽभिप्रायतश्च समीचीनमिति । नतु दाक्षिण्येनेत्यर्थः । विश्वासार्थभृगुनन्दनेति सम्बोधने हेतुभूतं विशेषणम् ॥ साधुवादमिति ।। शब्दतो वदनं वादः । साधूनां वादः । साधवः पदार्थो भगवत्सम्बन्धिनोऽस्मिन्नुच्यन्त इति । साधूनां वादो यस्मादिति वा । वीतरागा भगवत्कथामेव कुर्वन्तीति । निरूपितप्रमेयस्य साधुवादत्वज्ञापनाय विशेषणम् । भगवद्भक्ताश्चेन्मिलन्ति तदैवं वाक्यं प्रष्टव्यमिति महता कष्टेन व्यासो भगवद्गुणप्रतिपादकमिदं शास्त्रं चकार । तस्य प्रवर्तनार्थं च शुकः प्रवृत्तः । तादृशं प्रश्नरूपं साधुवादमेवाऽपेक्षते । महता प्रयासेन भगवन्मतप्रवर्तकत्वात् । तदाह ॥ वैयासकिरिति । तथापि भगवच्चरित्रस्य दुर्जेयत्वात् कथमुत्तरमत आह ॥ सभगवानिति ॥ भगवता सहितः । तदन्तःस्थितो भगवानेवोत्तरं प्रयच्छतीत्यर्थः । नन्वेवं