पृष्ठम्:श्रीसुबोधिनी.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


 एतदन्यचेति ॥ अन्यदपृष्टं सर्वें भगवत्कृतम् ।। मे इति ।। तदीयत्वान्ममैतदेव कृत्यमिति ॥ मुन इति ॥ ज्ञानार्थं सम्बोधनम् ॥ कृष्णविचेष्टितमिति स्वतन्त्रफलत्वम् । कृषिर्भूवाचकः शब्दो नश्च निर्वृतिवाचकः * तयोरैक्यं परं ब्रह्म कृष्ण इत्य- ऽभिधीयत इति सदानन्दः कृष्ण उक्तः। तच्चरित्रमपि सदानन्द- रूपमेवेति फलत्वात् सर्वमेव वक्तव्यम् । एतन्माभिज्ञस्त्वमेवेति वक्तुमर्हसि । वीर्याधरूपेऽपि केवलचरित्रेऽप्यहं श्रद्दधानः ॥ विस्तृतमिति ॥ तादृशोऽपि विस्तारो वक्तव्यः। सर्वत्रैव चरित्रे चतु- विधेऽपि विस्तारः । वीर्याणि, सर्वगेयचरित्राणि, अलौकिकवीर्याण्यगेयचरित्राणीति चातुर्विध्यम् ॥ १२ ॥

 एवं द्वादशभिः प्रश्नं निरूप्य सर्वथा कथनार्थम्, अकथने वा बाधकमाह--


 नैषाऽतिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते ॥
 पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथाऽमृतम्॥१३॥


 नैषेति ।। आर्तिकथनायैषेति ॥ अप्रयोजकत्वं वारयति । अतिदुःसहेति ॥ क्षुन्मामिति प्रमाणकथनम् । उदकत्यागः प्रकारान्तरेण देहरक्षाभावार्थः । एषा परमोत्तमाधिकारस्थितिः । उदकस्योभयनाशकत्वात् तथोक्तम् । क्षुधो भ्रातृव्यत्वश्रवणाद् अवश्यवाधकत्वात्तदेवोक्तम् । शीघ्रकथनाय वर्तमानप्रयोगः। अम्भोजत्वममृतस्रावात् । कथाकथने वक्तुः परवशत्वापादकं चरित्रमिति । पानमन्तःप्रवेशनमविस्मरणाय । इदानीमपि पूर्वोक्त- कथनानुसन्धानाद्वर्तमानप्रयोगः। सम्भावनयेत्यन्ये । आनन्दत्वचेतनत्वद्योतनाय, हरीति ॥ विशेषतो दुःखनाशकत्वं तत्र प्रसिद्धमिति विशेषतो हरिकथा अमृतमिवेत्यमृतपदे यौगिकोऽर्थो