पृष्ठम्:श्रीसुबोधिनी.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
जन्मप्रकरणम्अध्यायः


लीलाप्रश्नः । पूर्वोक्तानुवाद एव वा । व्रजेव वसन् किमकरोत्। कंसवधादिकं स्पष्टमपि लोके विगर्हितमिति पृच्छति ॥ भ्रातरमिति ॥ मातुर्भ्रातरमद्धा स्वहस्तेन मातुलस्य मान्यत्वादतदर्हणं वधानहम् । कस्मादिति पूर्वस्यानुपङ्गोऽत्र ज्ञेयः । व्रजे मथुरायां च के के उद्धृताः। कंसस्यापि का व्यवस्थितिरिति प्रश्नः ॥१०॥

 द्वारकायां कियत्कालं स्थितवानित्याह-


 देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः ।।
 यदुपुर्या सहाऽवात्सीत् पत्न्यः कत्यभवन् प्रभोः॥११॥

 देहमिति । अत्यन्तनटोऽपि प्रहरमात्रं वेषं करोति कपट- मानुषवेषं कियत्कालमास्थाय स्थित इति कालप्रश्नः । तत्र स्थितस्य विशेषप्रयोजनाभावाद् देहं मानुषमाश्रित्येति तत्रैवोक्तम् । वृष्णिभिर्यादवैः सहेति । असमानसमानताऽपि बहुकालमयुक्तेति सूचितम् ।। यदुपुर्यामिति ॥ परस्थाने वासः । अवात्सीदिति वासे न सन्देहः । लक्ष्मीसमानभाग्यं कियतीनां जातमिति, पत्न्यः कत्यभवन्नितिप्रश्नः । प्रभोरित्यनेन सर्वसामर्थ्यं तस्य वर्तते इति संगोप्य नान्यथा कथनीयमिति सूचितम्।।११।।  अन्यदपि युक्तिविरुद्धं सोपपत्तिकं वक्तव्यमित्याह-



 एतदन्यच्च सर्वे मे मुने कृष्णविचेष्टितम् ॥
 वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२॥




 तत्रैवोक्तमिति ॥ तत्रैव वृष्णिमानुषदेह एवाश्रयणमत्रोक्तमित्यऽर्थः । तेषु सर्वेषु भूभारराजपृतनानिरसनसामर्थ्याय भगवानाविष्टस्तिष्ठतीति तथा । एतज्ज्ञापनायैवाद्यश्रवण उक्तः । अन्यथा तं विनाऽपि प्रश्नसम्पत्तेस्तं न वदेत् । एवं सति, वृष्णिभिः सह देहं मानुषमाश्रित्य कति वर्षाणि यदुपुर्यामवात्सीदिति सम्बन्धो ज्ञेयः । अत एवाग्रे प्रभुर्वक्ष्यति, नैवान्यतः परिभवोऽस्य भवेत् कथञ्चिदित्यत्र हेतुभूतं विशेषणं- मत्संश्रयस्येति ।।