पृष्ठम्:श्रीसुबोधिनी.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


 रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया ॥
 देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ॥८॥

 रोहिण्याइतिपञ्चभिः।। बलं गदं सारणं चेत्यत्र रोहिण्या- स्तनयः प्रथमत उक्तः । वसुदेवस्तु देवक्यामित्यत्र कीर्तिमन्तमिति गणनायां सप्तमोऽहीश्वरो गणितः, सङ्कर्षणमहीश्वरमिति । यद्यपि तत्र भगवत्प्रभाव एव कारणं, तथापि लौकिकप्रकार विषयः प्रश्नः ॥ देहान्तरं विनेति ॥ तस्मिन्नेव जन्मनि कथम् उभयत्र उत्पत्तिः ? ॥ ८॥  भगवतो मथुरापरित्यागे को हेतुरिति पृच्छति-


 कस्मान्मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः।।
 क वासं ज्ञातिभिःसार्द्धं कृतवान् सात्वतां पतिः ॥९॥

 कस्मादिति ॥ कालादिभयनिवारकस्य शुद्धब्रह्मणो भयाभावे ब्रजगमने को हेतुरिति मुकुन्दपदेन सूचितम् । सर्वेभ्यो मोक्षदाता मुकुन्दः । बृहद्वनवृन्दावनादिषु मध्ये नन्दादीन् ज्ञातित्वेन परिकल्प्य ज्ञातिभिः सह क वासं कृतवान् ? । अथवा, असंज्ञातिभिः सम्यग्ज्ञातिभावरहितैः क्वावा साकं सहभावं कृतवान् । भगवतस्तु तदवतारः सतामेव संरक्षणार्थः । यतः स सात्वतां शुद्धसत्त्वे प्रतिष्ठितानामेव पतिः।।९॥ प्रश्नान्तरम्--


 व्रजे वसन् किमकरोन्मधुपुर्यां च केशवः ।।
 भ्रातरं चावधीत् कंसं मातुरद्धाऽतदर्हणम् ॥१०॥

ब्रजे वसन् किमिति ॥ तज्जात्यनुकरणतद्भावानुकरण-



 अथवेत्यादि । अधुनापि, वयं गोवृत्तयोऽनिशं, श्रूयतां मे पितरित्यादिवचनानामश्रवणाद्वसुदेवपुत्रत्वेन यादवत्वेन ज्ञानादेवमपि कथनं सम्भाव्यते इत्याशयेने दमुक्तम् ॥