पृष्ठम्:श्रीसुबोधिनी.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
जन्मप्रकरणम् । १ । अध्यायः । १।


मिति ॥ आत्मत्वेऽपि निमित्तवशात्तेषां तथा करणमिति सचितम् । पुरुषरूपाणि मस्त्यादीनि कालरूपाणि विषया इति केचित् । भगवद्ध्यानरूपाणि पुरुषरूपाणीत्यन्ये । कालरूपाण्याऽऽब्रह्मरूपतृणस्तम्बरूपाणि यद्यपि सर्वाण्येव रूपाणि भगवतस्तथाप्यन्तर्बहिर्भेदकृतो विशेषोऽयमित्याह ॥अन्तर्बहिरिति॥ अतः कथमपि साधनैर्बहिर्मुखा मृत्युमेव प्राप्नुवन्ति । अन्तर्मुखास्तु अमृतमेव । तथात्वे तस्य किं सामर्थ्यम् । किमन्तर्बा हिर्दृष्टकृतमेव । मर्यादार्थं तथेच्छा वा । अतस्तादृशस्य पराक्रमे ज्ञातेऽयं संदेहो निवर्त्तत इति तदवश्यं श्रोतव्यम् । एवं तद्गोकुलवासिनां वैकुण्ठगमने निर्णीतं भविष्यति । मानुष्यभावे नैतत् सम्भावितमिति शङ्काव्युदासायाह ॥ मायामनुष्यस्येति ॥ बुद्ध्याऽऽवरिका सेति पुरुषोत्तमत्वबुद्धिमावृत्य मनुष्यत्वबुद्धिं करोतीति तया कृत्वा तथा ज्ञानविषयस्येत्यर्थः। न केवलं भगवद्वीर्यकीर्तनमदस्मदुपकारायैव । किन्तु कीर्तनफलं तवापि भविष्यतीत्यात्मनेपदम् । विद्वन्निति ।। ज्ञानं सर्वत्र हेतुः ॥ ७॥ ॥ एवं भगवचरित्राणि पृष्ट्वा सन्दिग्धान् युक्तिविरुद्धान् अर्थान् पृच्छति



आत्मत्वेन मृत्युदानमनुपपन्नमित्याशङ्क्या समादधते ॥ निमित्तवशादिति ॥ देहभाक्त्तोक्तितात्पर्योक्तिरियम् । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययाविति तत्त्वसूत्रात् । स नैव रेमे,तस्मादेकाकी न रमते स द्वितीयमैच्छदित्यादिश्रुतिभ्यश्च जीवानां देहसम्बन्धः स्वक्रीडार्थमेव भगवता कृतइति क्रीडैव निमित्तं, तद्वशात्तथेत्यर्थः॥ भगवद्ध्यानरूपाणीति ॥ आन्तरत्वादिति भावः । अतः कथमपीति ॥ उतेति पदादन्तर्मुखेभ्यो रूपद्वनाप्यऽमृतदानम् । विषयपक्षे भजनोपयोगित्वेन तथात्वम् । ब्रह्मादिपक्षे भगवत्क्रीडोपयोगित्वेन विभूतिरूपत्वेन ज्ञानात्तथात्वम् । बहिर्मुखेभ्यस्तथात्वं स्पष्टम् ॥