वीर्याणीति ॥ केचिदिमं प्रश्नं पूर्वस्माद्भिन्नमाहुः ।
यचरित्रं मानुषभावेन कृतं सर्वजनीनं, तत् पूर्वपृष्टम् ।
यत् पुनरवतारसम्बन्धरहितं वरुणलोके गत्वा नन्दादिविमोचनरूपं
वैकुण्ठप्रदर्शनादिरूपं वा तत् पुनः प्रश्नविषय इति । तथा सति
अस्य चरित्रस्यामृतत्वसम्पादकत्वं वक्ष्यमाणं फलं भवेन्नान्यस्येति
चिन्त्यम् । तस्य कृष्णस्याखिलदेहभाजामन्तर्बहिर्भेदेन पुरुषरूपैः
कालरूपैश्च अमृतं मृत्युं च प्रयच्छतः पुरुषोत्तमस्यैव मायामनुष्यस्य
वदस्वेति सम्बन्धः । अनेन भगवताऽत्रावतारे रूपद्वयं
प्रदर्शितम्- मूलरूपम् , अवताररूपं च । इदमेव मूलरूपमिति
तन्माहात्म्यं वा । तस्येति रूपान्तरव्युदासाय । माहात्म्यज्ञानाय,
वीर्याणीति ॥ अखिलेति प्रकारान्तरव्युदासाय । न हि केषा-
मपि भगवद्व्यतिरेकेणान्यस्मान्मृत्युरमृतं वा भवति ।। देहभाजा
पूर्णे गर्भे प्रयोजनाभावात्ततो निवृत्त इति सोऽनुभावोऽपि निवृत्तोऽन्यथा
भगवता रक्षित इति कालादेरपि भयाभावायं देहो नित्य
एव स्यात् । तथाच चक्रं भ्रमणशीलमिति व्याघुट्य मत्परितो भ्रमणं
कृतवदिति कालाधीनत्वं सम्पन्नमितीदानीं न जीवनसम्पत्तिरित्यर्थः।।
अनेनेत्यादि । वारद्वयं वीर्यप्रश्नकथनेनेत्यर्थः ॥ यदुवंशे वंशसंबन्धिकार्यकरणार्थं प्रद्युम्नांशेनावतीर्य वीर्याणि कृतवानिभमल्लकंसमागधादिवधरूपाणि प्रवयसामपि यौवनं यदूनां द्वारकानयनं वैदर्भीहरणादिरूपाणि चेति तत्रांशेनावतीर्णस्येत्यनेनावताररूपं निरूपितम् । वीर्याणि तस्येत्यनेनोक्तरूपद्वयमुक्तफलदाने वाशीवत करणभूतं यस्य तन्मूलभूतं रूपं निरूपितम् । अखिलदेहभाजामिति पदादेतवतारात् पूर्वमपि तेषामुक्तफलदानोक्तस्तथात्वं ज्ञायते । एवं सत्यवतारकार्यस्य मूलरूपकार्यस्यापि करणादुभयरूपत्वमस्मिन्नवतारे ज्ञाप्यत इत्यर्थः । तेन वीर्यबहुत्वसम्भावनास्तीति तत्पश्न इति भावः । अत्रैतदवतारवीर्यं पृच्छंंस्तत्कर्तुर्यन्मूलरूपत्वमुक्तवान् तेनास्यैवावतारस्य मूलरूपत्वोक्त्या माहात्म्यमेवोक्तवानित्याशयेन पक्षान्तरमाहुः ॥ इदमेवेत्यादिना ॥