त्वम् । कुक्षिं गत इति प्रकारान्तरेणान्यतो रक्षाभावो दर्शितः ।
आत्तचक्र इति ।। तत्त्वसहितं स्वरूपं दर्शितवान् । उत्तरत्र
ध्यानार्थ इत्युपकार उक्तः । न तु चक्रेण रक्षा,
अस्त्रतेजोदूरीकरणं वा । अत एव, अस्नेतजः स्वगदयेत्यनेनाविरोधः ।
कालनिग्रहार्थं वा चक्रग्रहणम् । अत एवम्भगवति सानुभावे
निवृत्ते तच्चक्रं परिभ्रान्तमितीदानोमियमवस्था। मातुर्मेयो ज्ञेयः।
चकारान्ममापि । शरणं गतत्वादर्शनं,कुक्षिप्रवेशोऽपि ।
माहात्म्यस्यानुभूतत्वाद्भवदुक्ते विश्वासो भविष्यतीति भावः ॥६॥
एवं स्वस्य भगवच्छ्रवणाधिकारं बोधयित्वा पूर्वपृष्टं भगवचरित्रं पुनः प्रकारान्तरेण फलसाधकमिति वदन्ननुवदति--
वीर्याणि तस्याखिलदेहभाजा-
मन्तर्बहिःपूरुषकालरूपैः ।
प्रयच्छतो मृत्युमुताऽमृतं च
मायामनुष्यस्य वदस्व विद्वन् ॥ ७॥
तत्त्वसहितमिति ॥ तेजस्तत्त्वं सुदर्शनमिति वाक्यादिति भावः । इह
चक्रपदं भगवति स्थितानां सर्वेषां तत्त्वानामुपलक्षकम् । तानि तु
द्वादशस्कन्धे, अथेममर्थं पृच्छाम इत्युपक्रम्य, तान्त्रिकाः परिचर्यायां
केवलस्य श्रियः पतेः * अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा
च यैरितिशौनकेन पृष्टः सूतो, नमस्कृत्य गुरून् वक्ष्ये
विभूतीर्वैष्णवीरपीत्युपक्रम्य अङ्गादीन् पूजायां येन रूपेण ध्यायन्त्याचार्यास्तानि
रूपाण्यऽवदत् । तथाच ध्यानार्थमेव तथा प्रदर्शनमिति
स्यान्नतूक्तरीत्यामित्याहुरत एवेति ॥ कालनिग्रहार्थं वेति ॥ चक्रं मारकत्वेन
कालरूपम् । तद् धृत्वा तिष्ठतीति तन्न स्वकार्यकरणक्षमं भवतीति
तथा । चक्रपदोपादानतात्पर्यान्तरमाहुः ।। अत एवेति ॥ दग्धस्यापि
पूर्वभावसम्पादनेन जीवितसम्पादनमनुभावः । तादृशो भगवान्