पृष्ठम्:श्रीसुबोधिनी.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


कार्य वैरम् । तस्य चानिवर्त्यब्रह्मास्त्रेण विप्लुष्टं विशेषेण दग्ध- मिदं मम शरीरम् अर्जुनस्य वैष्णवत्वाद् वंशात्मकं बीजभावा- ऽवशिष्टमत एव सन्तानबीजम् । कुरूणामपि मुक्तिदानाद्वंशाभावे न मुक्तिरिति कुरुपाण्डवानां ग्रहणम् । कुरुभिः सहिताः पाण्डवाः कुरुपाण्डवाः कौरवाः पाण्डवाश्चेति पक्षे, जनपदे लुबिति योगविभागाल्लुप् । अन्तर्बीजमात्ररूपेण स्थितं देहं दग्धैरप्यशै- रदग्धभावनया अन्यथा प्रतीतैः सह जुगोपेत्यर्थः । दाहानन्तरं रक्षणमत्यशक्यम् । दाहो धर्मरक्षार्थः । मोक्षे प्रतिबन्धाभावा- ऽर्थश्च । इदमित्यविकलवायाङ्गुल्या निर्द्देशः । मदङ्गमिति स्वा- ऽनुभवो दर्शितः । सन्तानस्य बीजमिति तदानीं रक्षायामिदा- नीं चारक्षायां हेतुः । कुरुवंशोद्भवा ये पाण्डवा इति मूलतोभक्त-



 सर्वात्मना गर्भदाहे गोप्यस्याभावाद् गोपनासम्भव इति गोप्य- मंशमाहुः ।। अर्जुनस्येत्यादिना॥ स्थूलांशे दग्धेऽप्युक्तबीजत्वांशात्मको धर्मस्तु वैष्णवांशत्वात् स्थित एवेति दग्धानप्यंशान् स्वसामर्थ्येन अदग्धान् भावितवानिति तैः सहभूतं बीजभावं जुगोपेत्यर्थः ।। योगविभागादिति॥ जनपदशब्दात् क्षत्रियादञिति सूत्रप्राप्ताञ्प्रत्यय- स्य लोपस्तु, जनपदे लबिति सूत्रेण भवति इह कुरुशब्दस्य जन- पदावाचित्वेऽञो लोपासम्भवादेवं प्रयोगासम्भव इत्याशङ्क्य तत्सं- भवप्रकारमाहुः ॥ योगविभागादिति ॥ जनपदशब्दे विभक्ते कृते, लुबित्येतावन्मात्रं सूत्रमिति जनपदाऽवाचित्वेऽपि तत्प्रत्ययलोपा- त्तथा शब्दसिद्धिरित्यर्थः ॥ अन्यथा प्रतीतैरिति ॥ पूर्वं दग्धत्वेन प्रतीतानामदग्धस्वेन प्रतीतिरन्यथा प्रतीतिः ॥ धर्मरक्षाऽर्थ इति । वेदमन्त्रेणाधिष्ठापितब्रह्मरूपदेवताकं हि ब्रह्माऽस्त्रम् । तत्कार्यस्य भगवता प्रतिबन्धे भगवतो वेदमार्गरक्षकत्वलक्षणो धर्मो गच्छदिति तथा ॥ एतेनादाहेऽपि सामर्थ्यं प्रभौ सूचितम् ॥ मोक्ष इति ॥ वेद- मन्त्राधिष्टिता देवता हि स्वकार्य कृत्वा निवर्तते । तदकरणे तदनि- वृत्त्या मोक्षप्रतिबन्धः स्यान्मर्यादामार्ग इति तदभावार्थ तथेत्यर्थः ।।