स्वदृष्ट्या भगवान गृह्यत इति भगवद्भावे कथमेवं स्यात् । तेषा-
मवस्थापनात् तुच्छकरणम् । उभयमलौकिकं सकृदेव जातमिति ।
अन्ततस्त्रयाणाममारणाद्वत्सपदम् । द्विधाविदीर्णो मुखस्थानीयो-
ऽश्वत्थामा,वारद्वयमपकारकरणात् । प्लवमारुह्य तीर्णं तीर्णं समुद्रांश
शोषयन्तः अन्ते किञ्चित् स्थापयित्वोत्तीर्णा इत्यर्थः । कीर्तेरपि
प्राप्तत्वात् कर्तृत्वम् । इदमत्यन्तमलौकिकम् । एवमेव पूर्वपूर्वसंसार-
मपि शोषयित्वा भगवत्सेवामात्रं संसारपदार्थपरिग्रहं स्थापयि-
त्वा पारस्थितं भगवन्तं भगवदाश्रयाः प्राप्नुवन्तीत्युक्तम् ॥५॥
एवं श्रुतमाहात्म्यमुक्त्वा दृष्टमाहात्म्यमाह-
द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं
सन्तानबीजं कुरुपाण्डवानाम् ॥
जुगोपकुक्षिङ्गत आत्तचक्रो
मातुश्च मे यः शरणं गतायाः ॥
द्रौण्यस्त्रेति ॥ सर्वथापाण्डवाशक्तौ स्वयमपि कृतवानिति बदन् स्वस्मिन् कृपातिशयमप्याह ।। माहात्म्यमारणे पितृनाम्ना द्योतिते । द्रोणो ह्यस्त्रविद्यायां मूलभूतः । पितृमारणं च अप्रती-
शाप्यत इत्यर्थः । तत्र हेतुः, सम्यगित्यादि ॥ तत्रापि हेतुः, स्वदृष्ट्येति ॥ स्वसाम्येनेत्यर्थः। लौकिकदृष्ट्येति वा । भगवत्वेन भगवति ज्ञाने वत्सपदे मज्जनसंभावना न स्यादित्याहुः ॥
भगवद्भाव इति ॥ ब्रह्माऽस्त्रदर्शन उत्तरावच्छरणगमनमेव स्याद्, नशस्त्रग्रहणम् । तदा चक्रेण प्रभुणा चेन्नरक्षिताः स्युस्तदा स्वसाम- र्थ्यस्याप्रयोजकत्वाद् नाश एव स्यात् । इदमेव मज्जनरूपम् । स्व- मर्थ्यनास्माकं जय इत्यभिमानेन हि तदा शस्त्रग्रहणम् । एवं सति पूर्वमपि प्रभुणैव रक्षितत्वेन तदुपकाराज्ञानान्माहात्म्या ज्ञानाञ्च क्षुद्रत्व- मेव तेषु पिपीलिकात्वम् ॥