पृष्ठम्:श्रीसुबोधिनी.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


ततः संबन्धित्वेन पितामहत्वेन वा त्यक्ष्यतीति निवृत्तम् । अवि. चारश्चोक्तः । गिलनेनास्थ्यादीनामिव सर्ववंशनाशकत्वं च । बहिःस्थितमपि ते मारयन्ति, किं पुनः स्वसेनापतितमिति समुद्रत्वम् । अत एव, दुरत्ययं,साधनघातकत्वान्मकरादेः । कुरुवंशोद्भवाश्च नार्वाङ् निवर्तन्ते ॥ सैन्यसागरमिति ॥ चेतनसागरत्वेन स्वरूपतो नाशकत्वमुक्तम् । महानौकादिसाधनानामपि दुःखेनाऽतिक्रमोऽतिक्रमणं यस्य । यो भगवान् प्लवो येषामिति ॥ भगवतोऽल्परूपेण संनिधिमात्रेण रक्षकत्वम् । अयुद्ध्यमानत्वात् । मनःशङ्कानिवृत्त्यर्थं, वत्सपदं कृत्वेति ॥ तुच्छकरणतरणयोर्भगव दाश्रयत्वमेव हेतुः। गीतायां भीष्मादिमरणज्ञानात् तुच्छकरणम् । तथापि, सम्यगाश्रयणाभावात् पाण्डवानां पिपीलिकात्वमेव ॥




भावः । सैन्यसागरपदतात्पर्यमाहुः ॥ बहिःस्थितमपीति ॥ सैन्यस्था हीतस्ततः स्वसेनाबहिःस्थितं मारयन्ति, न तु स्वसेनाम् । समुद्रस्थास्तु स्ववृन्दमध्यस्थमपि । इह च उभयरूपत्वमुक्तम् । तेनोक्तकैमुतिकन्याय सूचनाय सैन्यत्वं समुद्रत्वं च उक्तमित्यर्थः । पोतमपि गिलन्तीति साधनघातकत्वम् ॥ चेतनेति ॥ जलात्मकः समुद्रः स स्वयं न मारकोऽचेतनत्वात्, किन्तु तत्स्थाश्चेतनाः । इह समुद्रस्यैव चेतनत्वात स्वस्वरूपेणैवान्यनाशकत्वं ज्ञाप्यत इत्यर्थः ।। प्लवत्वोक्तितात्पर्यमाहुः॥ भगवत इत्यादि ॥ प्लवो हि समुद्रात् स्वल्पतरस्तत्स्वरूपानन्तःपाती च | स्वाश्रयणमात्रेण तारको, न तु मकरादिनिवारणे स्वक्रियावानेवं भगवानपि पाण्डवसैन्यमशेषं रक्षितुं नोद्यतः। तदा बृददरूपः स्यात् । किन्तु पाण्डवानेव रक्षितमतोऽल्परूपत्वमयुद्ध्यमानत्वात्तदनन्तःपातित्वम् ॥ उक्तसागरं वत्सपदमकुर्वन्नित्येतावतैव चारितार्थे प्रभोः प्लवत्वनिरूपणं तरणोक्तिश्च निरर्था। वत्सपदे मज्जनासंभवेन प्लवानपेक्षणादित एव तरणस्याप्यसंभवादुल्लङ्घनस्यैव तत्र संभवादित्याशङ्क्य तत्तात्पर्यमाहुः । तथापीति॥ वत्सपदे तासामेव मज्जनसम्भवात् प्लवतरणोक्त्या तेषां तथात्वं