विपर्ययो वा किं न स्याद् गतिर्धातुर्दुरत्यया ॥
उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥
विपर्ययो वा किं न स्यादिति ॥ वाणीप्रमाण्याचेत्तस्या मरणं,
तदा तत एव विपर्यय एव किं न भवेत् । मत्पुत्रादेवास्य
मरणमिति । नन्वेतद् युक्तिबाधितं, बालस्तव पुत्र इतिचेत्तत्राह ॥
गतिर्धातुर्दुरत्ययेति ॥धातुर्भगवतो गतिरुत्पत्तिस्थितिप्रलयरूपा
दुरत्यया दुःखेनाप्यतिक्रमितुं ज्ञातुमशक्यत्वात् । न हि
लौकिकयुक्त्या भगवतो वध्यघातकभावो निर्णेतुं शक्यः ।
अलौकिकास्तु ये भावा न तांस्तर्क्केण योजयेदिति वाक्यात् ।
तस्मात् पुत्रदानकथनेन सांप्रतमियं संरक्ष्या, पश्चादेतत्पुत्त्रैरयं
च वध्यः । तस्मादेतदेव कर्तुमुचितम् । तदाह ॥ उपस्थितोऽस्या
मृत्युरेवं कृते निवर्त्तेत । एतन्मारणेन निवृत्तोऽप्याकाशवाण्या
उक्तो मृत्युरेतत्संरक्षायां पुनरापतेत् । तस्मात् कंसवधार्थमेव एवं
मन्त्रणेन संरक्ष्येत्यर्थः । धातुर्गतिरेव विवृतेति केचित् ।
एतस्याप्यनङ्गीकारे क्षणविलम्बेनेदानीं निवृत्तः पश्चादापतेचेत्तदा
नापराधोऽस्ति देहिन इति पूर्वेणैव सम्बद्ध्यते इति वा ॥५०॥
ननु यद्यपि परमार्थोऽयं तथापि लोकविरुद्धं न कर्त्तव्यं पुत्र-
दानमनुचितमितिचेत्तत्राह-
|
अग्नेर्यथा दारुवियोगयोगयो-
रदृष्टतोऽन्यन्न निमित्तमस्ति ।।
एवं हि जन्तोरपि दुर्विभाव्यः
शरीरसंयोगवियोगहेतुः ॥ ५१ ॥
अग्नेरिति ॥ न हि मया समर्पित इत्येव म्रियते । किन्तु
यदि तथाऽदृष्टं भविष्यति तदैव मरणम् । तत्रोपपत्तिः । अरण्ये
दावानलेन दह्यमाने निकटस्थितः कश्चिन्न दह्यते । दुरस्थित-