पृष्ठम्:श्रीसुबोधिनी.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
जन्मप्रकरणम्अध्यायः । १ ।


श्व दह्यते । तस्मादत्र निमित्तमदृष्टमिति । पुत्रादीनां देहवियोगयोगयोरप्यदृष्टमेव निमित्तम् । हि युक्तश्चायमर्थो भरतादिषु दृष्टः । स हि हरिक्षेत्रे हरिणदर्शने मृतः कालञ्जरे हरिणो जात इति किमत्र हरिणशरीरग्रहणे तत्रापि कालञ्जरे निमित्तं दृष्टं सम्भवति । जन्तुश्च जीवः सर्वत्र जायमानः । तत्र दृष्टस्य बाधितत्वात् कल्पनाया अशक्यत्वाच्छशरीरसंयोगवियोगहेतुर्दुर्विभाव्यः ।। ५१ ॥

 तस्माददृष्टवशात् पश्चात् किमप्यस्तु, इयं तु सांप्रतं मोचनीयेति निर्धारितमित्याह-


श्रीशुक उवाच ॥


 एवं विमृश्य तं पापं यावदात्मनिदर्शनम् ॥
 पूजयामास वै शौरिबहुमानपुरःसरम् ॥ ५२ ॥


 एवं विमृश्यति ॥ स्वकर्तव्येऽयं विमर्शः । कंसश्चेत्तदङ्गीकुर्यात्तदा सिद्ध्येत् । तस्य सिद्धिर्दुर्घटेति । तस्य दूपणानि वदन् प्रयत्नाधिक्यं कृतवानित्याह ॥ तं प्रसिद्धं दिग्विजयिनं पापमेतादृशकर्मकारं पूजयामास । पूजायां हि स्वस्मिन् स्थितो भावादिः पूज्ये समारोप्यते । ततः कार्यं सेत्स्यतीति । अयमलौकिक उपायः। ननु किमर्थमेतावत् कृतवानित्याह ॥ यावदात्मनिदर्शनमिति ॥ आत्मनो निदर्शनं ज्ञानं यावद्भवति दृष्टादृष्टभेदेन ताघदुपायकरणं युक्तमिति प्रथममदृष्टोपायं कृतवानित्याह ।। पूजयामासेति ॥ वै निश्चयेनेति पूजने कार्यसिद्धिं निश्चितां मत्वा । तत्र स्वदेवता समारोपितेति बहुमानपुरःसरं पूजा । इयं पूजा स्तोत्रनमस्कारप्रह्वीभावात्मिका । एवं करणे ज्ञानप्राप्तहेतुमाह ॥ शौरिरिति ॥ शूरो वसुदेवस्य पिता ।। ५२॥

 पूजयित्वापि ज्ञापनां कृतवानित्याह-