प्रसार्य वदनाम्भोजं नृशंसं निरपत्रपम् ।।
मनसा दूयमानेन प्रहसन्निदमब्रवीत् ॥ ५३॥
प्रसायेति ॥ स्वस्य वदनाम्भोजं प्रसार्य विकसितं कृत्वा
आत्मानमप्रतारकं हितं च ज्ञापयित्वाऽधिष्ठानस्य दुष्टत्वादारोपिता
देवता तत्र स्थास्यति न वेतिसन्देहाद् दूयमानेन मनसा
दुःखाविष्टेनान्तःकरणेन उपलक्षितोऽपि तदाऽऽकारसङ्गोपनार्थं
प्रहसन् एतावत्यर्थे किमेतावत् क्रियत इति वदनिवेदं
वक्ष्यमाणमब्रवीत् । अधिष्ठाने दूषणद्वयं येन देवता न सन्निहिता
भवति- क्रौर्यलज्जाभावौ क्रोधकामनिधानभूतौ । तावाह ॥ नृशंसं
निरपत्रपमिति ॥ कामसेवका एव निरपत्रपा भवन्ति ।
पृष्ठस्वीकृतह्वीभया इति वाक्यात् । नृशंसः क्रूरात्मा तामसक्रोधयुक्तः ॥५३॥
आत्मीयतया तं गृहीत्वा हितमिवाह----
वसुदेव उवाच ॥
न चास्यास्ते भयं सौम्य यदै त्वाहाशरीरवाक् ॥
पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥५४॥
न चास्यास्त इति।। अस्याः सकाशात् ते भयं न
चास्ति । चकारान्न मत्तो भविष्यति वा । वाणीमामाण्यादेव ।
अतो निरपराधवधो न कर्त्तव्यः । सौम्येति सम्बोधनं सौम्यो भव ।
विज्ञापितं कुर्विति सम्बोधनार्थम् । अत्रार्थे प्रमाणमाह ॥ यद्वै
त्वाहेति ॥ एतदुभयत्रापि प्रमाणम् । अतोऽस्याः पुत्रान् तुभ्यं
समर्पयिष्ये । यतः पुत्राद् वाक्यतस्ते भयं सम्यग् उत्थितम् ।
निवेदिते त्वदीयस्त्वां न मारयिष्यति । कापट्यशङ्काभावाय
बहुवचनम् ॥ ५४॥
एवं दृष्टादृष्टोपायस्य कृतत्वादङ्गीकृतवानित्याह-