श्रीशुक उवाच ॥
सुहृद्वाधान्निववृते कंसस्तद्वाक्यसारवित् ।।
वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥१५॥
सुहृद्वधादिति ।। विवेक उत्पन्ने विचारप्रवणं चित्तं
जातमतः सुहृदियं भगिनी किमिति हन्तव्यति सुहृद्वधान्निववृते ।
वसुदेवः प्रतारयतीति तु शङ्का नास्ति । यतस्तद्वाक्यस्य सारं
सत्यत्वमयं जानाति । वसुदेवो न कदाचिदप्यनृतवादीति । अत
एव भगवदवतारः । निवृत्तो रथं प्रेरयित्वा गृहे
नीतावित्यऽध्यवसीयते। अतएव वसुदेवोऽपि तन्मनोगतकालुष्यस्य
गतत्वात् प्रीतः सन् प्रशस्य पुनः स्तुत्वा मार्गस्यातीतत्वाद् गृहं प्राविशत् ॥५५॥
एवमनर्थसमाधानं कथञ्चित् कृतम् । एतद्भगवतैव कृतमिति वक्तुमग्रिमं कार्यं समीचीनमेव जातमित्याह षड्भिः-
अथ काल उपावृत्ते देवकी सर्वदेवता॥
पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥५६॥
अथेति ॥ अथ तदनन्तरमेव शीघ्रमेव काले ऋतुसमये
उपावृत्ते जातेऽष्टवर्षमध्ये सर्वानेव पुत्रान् मुषुवे।
कन्यायामासक्तिर्जातेति कन्यां च।। अनुवत्सरमिति॥ प्रतिवत्सरमेकैकः
पुत्रो जातः, पूर्णगर्भाश्च ते । एवं निरुपद्रवतया प्रसवे हेतुः,
सर्वदेवतेति॥ सर्वा देवता रक्षणार्थं यत्र । कन्या नवमी ।
चकारस्तज्ज्ञापकः। प्रसवे न कोऽपि संवत्सरो व्यवहित इत्युपसर्गः ॥५६॥
यथैतया पुत्राः प्रसूतास्तथा वसुदेवोऽपि स्वोक्तं कृतवानित्याह-
कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः॥
अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः ॥ ५७॥
कीर्तिमन्तामिति ॥ ज्येष्ठो हि पुत्रः सर्वेषामदेयः । तत्रा-