पृष्ठम्:श्रीसुबोधिनी.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


ऽपि महान् । तादृशमपि दत्तवानिति स्वस्य धर्मनिष्ठतां ज्ञापयितुं, कीर्तिमन्तं प्रथमजमित्युक्तम् । कंस इति नाम्ना क्रौर्यं ज्ञापितम्।। आनकदुन्दुभिरिति, सत्यवाक्यत्वे हेतुः । स्वयं गृहीत्वा अर्पयामास ॥ कृच्छ्रेण कष्टेन शोकं संस्तभ्य । ननु अनृतकथनमप्यऽधर्मः । पुत्रसमर्पणमपि। तत्र प्राणसङ्कटे अनृतं न जुगुप्सितमिति पुत्रमेव कथं न स्थापितवानित्याशङ्ख्याह ॥ सोऽनृतादतिविहलः । पुत्रास्तु देहसम्बन्धिनः ॥ सत्यं तु भगवत्सम्बन्धि । तथा सत्यनृते कृते न भगवत्सानिध्यं भविष्यतीत्यतिविह्वलः । यतोऽयमानकदुन्दुभिः । अस्य पुत्रापेक्षयाऽपि सत्यमेव संरक्ष्यं भगवत्प्रापकम् ॥ ५७ ॥

 ननु पुत्रसमर्पणं दृष्टं, सत्यमदृष्टम् । कथं दृष्टादृष्टयोर्विप- रीतो बाध्यबाधकभाव इतिचेत्तत्राह-


 किं दुःसहं नु साधूनां विदुषां किमपेक्षितम् ॥
 किमकार्यं कदार्याणां दुस्त्यजं किं धृतात्मनाम् ॥५८॥


किं दुःसहमिति ॥ पुत्रस्यादाने किं मोहो हेतुलौकिकः, शास्त्रं वा । आद्यं दूषयति । साधूनां शत्रुमित्रोदासीनेषु तुल्यस्वभावानां किं दुःसहम् । मोहवशादेव पुत्रादिवियोगो दुःसहः। तदभावे यथा पुत्रस्तथा कंसः। ततश्च कंसघातकः पुत्रो न संरक्ष्य इति युक्तं दानम् ।अथ,पुत्रेण जयते लोकान् , पुत्रेण वसुतामेति, पुन्नाम्नो नरकात् त्रायत इति, त्वं यज्ञ इत्यादिवाक्यैः पुत्रकृतोपकारोउपेक्षित इतिचेत् तत्राह ॥ विदुषां ज्ञानयुक्तानां किं बहिःस्थितमपेक्षितमिति । न साधनं नापि फलम् ॥ ननु तथापि वधार्थ वधार्थं स्वतो बालकमज्ञं समर्पयतीत्ययुक्तमितिचेत्तत्राह ।। किमकार्यं कदर्याणामिति ॥ असमार्पिते वसुदेवमनृतवादिनं ज्ञात्वा कृतसमयबन्धस्य निवृत्तत्वात् सर्वानेव पुत्रान् सर्वा भार्या मां च मारयेदतस्त्यजे-