देकं कुलस्यार्थे इति न्यायेनार्पणमेवोचितम् । न चैतन्न
करिष्यतीत्याशङ्कनीयम् । यतः कदर्याणां कंसादीनां किमकार्यम् ।
सर्वोल्लङ्घनेन लुब्धाः कदर्याः । कुत्सितायां दर्यां हृदयरूपायां
सम्भवो येषां स्थितिर्वा । ननु तथापि पलायनादिकमेवोचितं,
न तु निरपराधबालकस्याज्ञस्य मारणमिति चेत्तत्राह ।। दुःस्त्यजं
किं धृतात्मनामिति ॥ धृत आत्मा वासुदेवो यैः । सर्वं गच्छतु
हरिस्तिष्ठतु इति येषां बुद्धिस्तेषामन्यत् सर्व त्यक्तव्यं भगवद्-
बाधकम् । असमर्पणं च सर्वनाशकत्वाद् भगवद्बाधकमिति॥५८॥
भगवदीयानां त्याज्यवस्तुषु कोऽपि गुणदोषविचारो नास्तीति पूर्वप्रतिज्ञातस्य समर्पणं युक्तमेव । भगवत्कृतत्वान्नानिष्टं जातमित्याह-
दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम् ॥
कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत् ॥ ५९॥
दृष्ट्वेति ॥ शौरेर्वसुदेवस्य पुत्रे स्वस्मिंश्च तुल्यतां दृष्ट्वा ।
अन्योन्यघातकत्वमुभयोर्ज्ञात्वा स्वस्यौदासीन्येन स्थितिरेव समता
सत्ये वाक्ये चैव व्यस्थितिमचाञ्चल्यमेवमुभयेनापि सन्तुष्टः ।
राजन्निति सम्बोधनं राजधर्मस्तथैवेति ज्ञापनार्थम् । प्रकर्षेण
हास्यं मुग्धोऽयमिति ज्ञापनार्थम् । इदं वक्ष्यमाणमब्रवीत् ॥५९॥
प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् ॥
अष्टमाद् युवयोर्गर्भान्मृत्युर्मे विहितः किल ॥६०॥
प्रतियात्विति ।। अनेन पञ्चवार्षिको नीत इति ज्ञायते ।
पष्ठश्चोदरस्थः । प्रतियात्विति वाक्यात् । अन्यथा,नयेत्येव वदेत् ।
अनेन पञ्चवार्षिक इत्यादि। अत्रायं भावः । अग्ने निगडनिग्रहानन्तरमेव, जातं जातमहन्निति वक्ष्यमाणत्वात् समर्पणानन्तरममारणे तनोचितमिति मत्वाऽनारेण तथा कथनादेतदनुपदमेव तत्कथन-