सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ३/गौरीवितानि(इममिन्द्र)

विकिस्रोतः तः
गौरीवितानि.
गौरीवितानि

२१
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं |
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने || ९४९ ||
न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे |
न किष्ट्वानु मज्मना न किः स्वश्व आनशे || ९५० ||
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन |
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः || ९५१ ||




३- गौरीवितानि।। गौरीवितिः । अनुष्टुप्। इन्द्रः ।

इमम् । इन्द्राऽ३ । सुतंपिबा ।। ज्येष्ठममर्तियंमदाऽ२३म् । शूक्रस्यत्वाऽ३१२३ । भियाऽ५क्षरान् ।। धाराऋताऽ३१२३ ।। स्यसोवा । दाऽ५नोऽ६”हाइ ।। श्रीः ।। नकिः । तुवाऽ३त् । रथीतराः ।। हरीयदिन्द्रयच्छसाऽ२३इ । नाकिष्टुवाऽ३१२३ । नुमाऽ५ज्मना ।। नाकिसुवाऽ३१२३ ।। श्वओवा । नाऽ५शोऽ६”हाइ ।। श्रीः ।। इन्द्रा । यनूऽ३ । नमर्चता ।। उक्थानिचब्रवीतनाऽ२३ । सूताअमाऽ३१२३ । त्सुरीऽ५न्दवाः ।। ज्याइष्ठन्नमाऽ३१२३ ।। स्यतोवा। साऽ५होऽ६”हाइ ।।

दी.८. उ. न. मा. १५. रु ।।८९२।।