पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । कपाली - अयमस्माकमपकारी । संविभागप्रधानः स्वसिद्धान्तः । शेषमाचार्याय प्रदीयताम् । देवसोमा ---- (क) जं भअब आणवेदि । गह्नदु भअवं । शाक्यभिक्षुः--- (आत्मगतम् ) (ख) अहो सुहोवणदो अ- भुदओ । एत्तओ दोसो-महाजणो पेक्खिस्सदि। (प्रकाशम्) भोदि ! मा मा एवं । ण वदि अह्माणं । (सृकणी लेढि ।) देवसोमा- (ग) धंस । कुदो दे एत्तिआणि भाअधे. आणि । कपाली-प्रिये ! इयमस्थेच्छाविरोधिनी वाग् मुखप्रसे- केन स्खल(य ?)ति । शाक्यभिक्षुः-(घ) इदाणिं वि णस्थि दे करुणा । कपाली-यद्यस्ति करुणा, कथं वीतरागो भविष्यामि। शाक्यभिक्षुः---- (ङ) एवं बीदरागिणा वीदरोसेण वि होदव्वं । कपाली-वीतरोषो भाविष्यामि, यदि मे स्वकं दास्यति। (क) यद् भगवानाज्ञापयति । गृह्णातु भगवान् । (ख) अहो सुखोपनतोऽभ्युदयः । एतावान् दोषः-- महाजनो द्रक्ष्यति । भवांत! मा मैवम् । न वर्धतऽस्माकम् । (ग) ध्वंसस्व । कुतस्ते एतावन्ति भागधेयानि । (घ) इदानीमपि नास्ति ते करुणा । (ङ) एवं वीतरागिणा वीतरोषेणापि भवितव्यम् । १. 'दई अक. पा.