सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मतविलासप्रहसनम् १५

 कपाली- आः, धूर्त्त ! क गमिष्यसि । दीयतां मे कपालम् | (चीवरान्तमालम्बते । )
शाक्यभिक्षुः-[] णमो बुद्धाअ |
 कपाली-नमः खरपटायेति वक्तव्यं येन चोरशास्त्रं प्रणीतम् । अथवा खरपटादप्यस्मिन्नधिकारे बुद्ध एवाधिकः ।
कुतः,

वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि ।
विप्राणां मिषतामेव कृतवान् कोशसञ्चयम् ॥ १२ ॥


 शाक्यभिक्षुः-[] सन्तं पापं सन्तं पापं ।
 कपाली-एवं सुवृत्तस्य तपस्विनः कथमितव पापं न शाम्यति ।
 देवसोमा-[] भअवं ! परिस्सन्तो विअ लक्खीअसि ।
ण एवं सुहोवाअसुळहं कवाळं । ता एदिणा गोसिङ्गेण सुरं पिबिअ जादबको भविअ इमिणा सह विवादं करेहि ।
 कपाली- तथास्तु ।

( देवसोमा कपालिने सुरां प्रयच्छति । )

 कपाली-(पीत्वा)प्रिये ! त्वयापि श्रमापनोदः कर्तव्यः ।
 देवसोमा[] भवं ! तह । (पिबति।)


  1. नमो बुद्धाय ।
  2. शान्तं पापं शान्तं पापम् ।
  3. भगवन् ! परिश्रान्त इव लक्ष्यसे । नैतत् सुखोपायसुलभं कपालम् | तदेतेन गोशृङ्गेण सुरां पीत्वा जातबलो भूत्वानेन सह विवादं कुरु ।
  4. भगवन्। तथा ।