पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मचविलासपहसनम् । कपाली-आः, धूर्त! क गमिप्यसि । दीयतां मे क. पालम् । (चीवरान्तमालम्बते।) शाक्यभिक्षुः- (क) णमो बुद्धाअ । कपाली-नमः खरपटायति वक्तव्यं , येन चोरशास्त्रं प्रणीतम् । अथवा खरपटादप्यस्मिन्नधिकार बुद्ध एवाधिकः । कुतः, वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि । विप्राणां मिषतामेव कृतवान् कोशसञ्चयम् ॥ १२ ॥ शाक्यभिक्षुः- (ब) सन्तं पापं सन्तं पापं । कपाली--एवं सुवृत्तस्य तपस्विनः कथमित्र पापं न शाम्यति । देवसोमा- (ग) भअव ! परिस्सन्तो विअ ळक्खीअसि । ण एवं सुहोवाअसुळहं कवाळं । ता एदिणा गोसिङ्गेण सुरं पिबिअ जादबळो भविअ इमिणा सह विवादं करहि । कपाली-तथास्तु । (देवसोमा कपालिने सुरां प्रयच्छति।) कपाली-(पीत्वा) प्रिये ! त्वयापि श्रमापनोदः कर्तव्यः । देवसोमा- (घ) भव! तह । (पिबति ।) (क) नमो बुद्धाय । (ख) शान्तं पापं शान्तं पापम् । (ग) भगवन् ! परिश्रान्त इव लक्ष्यसे । नैतत् सुखोपायसुलभं कपालम् । तदेतेन गोश्रृङ्गेण सुरां पीत्वा जातबलो भूत्वानेन सह विवादं कुरु । (घ) भगवन् ! तथा ।