पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासग्रहसनम् । देवसोमा --- (क) तेण हि अण्णं दाणिं सुरापणं ग- च्छामो । कपाली--प्रिये ! तथास्तु । (उभौ परिक्रामतः।) कपाली- अहोतुखलु विमानशिखरविश्रान्तधनरसि- तसन्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्या- पणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य का. चीपुरस्य परा विभूतिः । अपिच, अनतिशयमनन्तं सौख्यमप्रत्यनीकं समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः । तदिह निरवशेषं दृष्टमेतत् तु चित्रं यदुत करणभोग्यं कामभोगात्मकं च ॥ ९॥ देवसोमा- (ख) भअवं! भअवदी वारुणी विअ अण- वगीअमहुरा कञ्ची। कपाली-प्रिये! पश्य पश्य। एष सुरापणो यज्ञवाटवि- भूतिमनुकरोति । अत्र हि ध्वजस्तम्भो यूपः, सुरा सोमः , शौण्डा ऋत्विजः, चषकाश्चमसाः, शूल्यमांसप्रभृतय उपदंशा हविर्विशेषाः, मत्तवचनानि यजूंषि, गीतानि सामानि, उदङ्काः सुवाः, तर्षोऽग्निः, सुरापणाधिपतिर्यजमानः । -....-.-.-. -..--.--.--- (क) तेन ह्यन्यमिदानी सुरापणं गच्छावः । (ख) भगवन् ! भगवती वारुणीवानवगीतमधुरा काञ्ची ।