एतत् पृष्ठम् परिष्कृतम् अस्ति
९
मत्तविलासप्रहसनम् ।
देवसोमा-[१] अह्माअं पि एत्थ भिक्खा रुद्दभाओ
भविस्सदि।
कपाली- अहो दर्शनीयानि प्रहतमर्दळकरणानुगतानि विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावलम्बितोत्तरीयाणि विगलितवसनप्रतिसमाधानक्षणविषमितलयानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्तानि ।
देवसोमा-[२] अहो रसिओ खु आअय्यो।
कपाली- एषा भगवती वारुणी चषकेष्वावर्जिता प्रत्यादेशो मण्डनानाम्,अनुनयः प्रणयकुपितानां, पराक्रमो
यौवनस्य,जीवितं विभ्रमाणाम् । किं बहुना,
मिथ्या त्रिलोचनविलोचनपावकेन
भस्मीकृतां मदनमूर्तिमुदाहरन्ति ।
स्नेहात्मिका तदभितापवशाद् विलीना
सेयं प्रिये! मदयति प्रसभं मनांसि ॥१०॥
देवसोमा-[३]भअवं ! जुज्जइ एदं । णहि ळोओवआरणिरदो ळोअणाहो ळोअं विणासेदि ।
(उभौ कपोलपटहं कुरुतः ।)