सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९
मत्तविलासप्रहसनम् ।

 देवसोमा-[१] अह्माअं पि एत्थ भिक्खा रुद्दभाओ भविस्सदि।
 कपाली- अहो दर्शनीयानि प्रहतमर्दळकरणानुगतानि विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावलम्बितोत्तरीयाणि विगलितवसनप्रतिसमाधानक्षणविषमितलयानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्तानि ।
 देवसोमा-[२] अहो रसिओ खु आअय्यो।
 कपाली- एषा भगवती वारुणी चषकेष्वावर्जिता प्रत्यादेशो मण्डनानाम्,अनुनयः प्रणयकुपितानां, पराक्रमो यौवनस्य,जीवितं विभ्रमाणाम् । किं बहुना,

मिथ्या त्रिलोचनविलोचनपावकेन
 भस्मीकृतां मदनमूर्तिमुदाहरन्ति ।
स्नेहात्मिका तदभितापवशाद् विलीना
 सेयं प्रिये! मदयति प्रसभं मनांसि ॥१०॥

 देवसोमा-[३]भअवं ! जुज्जइ एदं । णहि ळोओवआरणिरदो ळोअणाहो ळोअं विणासेदि ।

(उभौ कपोलपटहं कुरुतः ।)



  1. ↑ आवयोरप्यत्र भिक्षा रुद्रभागो भविष्यति ।
  2. ↑ अहो रसिकः खल्वाचार्यः ।
  3. ↑ भगवन् ! युज्यत एतत् । नहि लोकोपकारनिरतो लोकनाथो लोकं विनाशयति।