मार्गशीर्षादावितिवच्छ्रवणदिनमपि ज्ञेयमित्यर्थः । श्रवणदिनमासाज्ञाने माघमार्गशीर्षदर्शे कार्यम् । अनन्तरोदाहृतप्रभासखण्डात् ।
इति क्षयाहाज्ञाने निर्णयः ।
अथ पिण्डप्रमाणम् ।
हेमाद्रावङ्गिराः--
"कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः । |
तत्रैव यमः--
"कपित्थस्य प्रमाणेन पिण्डान्दद्यात्समाहितः । |
- संग्रहे--
"एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते । |
कलिकायां स्मृत्यन्तरे--
"यत्र स्युर्बहवः पिण्डास्तत्र बिल्वफलोपमाः । |
अथ पिण्डदाननिषिद्धकालः ।
तत्र बृहत्पराशरपुलस्त्यौ--
"युगादिषु मघायां च विषुवेऽप्ययनेऽथवा । |
कालादर्श स्मृतिसंग्रहेऽपि--
"विषुवायनसंक्रान्तिमघासु च युगादिषु । |
मात्स्ये--
"अयनद्वितये श्राद्धं विषुवद्द्वितये तथा । |
अत्र संक्रातिष्वित्यनेनैवायनविषुवलाभे पुनस्तदभिधानं तत्कालकृतस्य पिण्डदानस्यातिनिन्दितत्वद्योतनार्थमिति हेमाद्र्यादयः ।
ब्रह्मपुराणे--
"यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निवित् । |
विषुवतो विषुवच्छ्राद्धादुत्तमं श्रेष्ठं श्रोत्रियागमननिमित्तकमपि श्राद्धम् । विषुवच्छ्राद्धादुत्तममित्युक्त्येदमप्यपिण्डकं भवितुमर्हतीति हेमाद्रिः ।