पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२८
[श्राद्धे पिण्डप्रमाणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( पिण्डदाननिषिद्धकाल: )
 

मार्गशीर्षादावितिवच्छ्रवणदिनमपि ज्ञेयमित्यर्थः । श्रवणदिनमासाज्ञाने माघमार्गशीर्षदर्शे कार्यम् । अनन्तरोदाहृतप्रभासखण्डात् ।

इति क्षयाहाज्ञाने निर्णयः ।

अथ पिण्डप्रमाणम् ।

हेमाद्रावङ्गिराः--

"कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः ।
कुक्कुटाण्डप्रमाणान्वाऽऽमलकैर्बदरैः समाः" इति ॥

तत्रैव यमः--

"कपित्थस्य प्रमाणेन पिण्डान्दद्यात्समाहितः ।
तत्समं विकिरं दद्यात्पिण्डान्तेषु सुसंयुतः" इति ॥

संग्रहे--

"एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते ।
नारिकेलप्रमाणं तु प्रत्यब्दे मासिके तथा ॥
तीर्थे दर्शे च संप्राप्तौ कुक्कुटाण्डप्रमाणतः ।
महालये गयाश्राद्धे कुर्यादामलकोपमम्" इति ॥

 कलिकायां स्मृत्यन्तरे--

"यत्र स्युर्बहवः पिण्डास्तत्र बिल्वफलोपमाः ।
यत्र चैको भवेत्पिण्डस्तत्र खर्जूरसंनिभः" इति ॥

अथ पिण्डदाननिषिद्धकालः ।

 तत्र बृहत्पराशरपुलस्त्यौ--

"युगादिषु मघायां च विषुवेऽप्ययनेऽथवा ।
भरणीषु च कुर्वीत पिण्डनिर्वपणं न हि" इति ॥

 कालादर्श स्मृतिसंग्रहेऽपि--

"विषुवायनसंक्रान्तिमघासु च युगादिषु ।
विहाय पिण्डनिर्वापं श्राद्धं सर्वं समाचरेत्" इति ॥

मात्स्ये--

"अयनद्वितये श्राद्धं विषुवद्द्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वपणादृते" इति ॥

 अत्र संक्रातिष्वित्यनेनैवायनविषुवलाभे पुनस्तदभिधानं तत्कालकृतस्य पिण्डदानस्यातिनिन्दितत्वद्योतनार्थमिति हेमाद्र्यादयः ।

ब्रह्मपुराणे--

"यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निवित् ।
तेनैकेन तु कर्तव्यं श्राद्धं विषुवदुत्तमम्" इति ॥

 विषुवतो विषुवच्छ्राद्धादुत्तमं श्रेष्ठं श्रोत्रियागमननिमित्तकमपि श्राद्धम् । विषुवच्छ्राद्धादुत्तममित्युक्त्येदमप्यपिण्डकं भवितुमर्हतीति हेमाद्रिः ।