पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[श्राद्धप्रकरणम्]
१०२९
संस्काररत्नमाला ।
( पिण्डदाननिषिद्धकालः )
 

 मघायुक्तां भाद्रपदापरपक्षत्रयोदशीमधिकृत्य देवीपुराणे--

"तत्रापि महती पूजा कर्तव्या पितृदैवते ।
ऋक्षे पिण्डप्रदाने(नं) तु ज्येष्ठपुत्री विवर्जयेत्" इति ॥

 तत्रापि भाद्रपदापरपक्षत्रयोदश्यामपि पितृदैवत ऋक्षे मघानक्षत्रे जाते सति महती श्राद्धलक्षणा पितृपूजा कर्तव्या । स तु कर्ता ज्येष्ठपुत्रवाञ्जीवत्प्रथमपुत्रश्चेद्भवेत्तर्हि तत्र श्राद्धं कुर्वन्पिण्डदानं वर्जयेत् । पिण्डरहितं श्राद्धं कुर्यादित्यर्थः । ज्येष्ठपुत्रीत्यनेन मघाकालिकस्य त्रयोदशीकालिकस्योभयसमवायकालिकस्य च पिण्डदानस्य ज्येष्ठपुत्रविनाशकत्वलक्षणो दोषः सूचितः ।

तत्र महाभारतम्--

"संक्रान्तावुपवासेन पारणेन च भारत ।
मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति" इति ॥

कृत्यरत्ने गार्ग्यः--

"पौर्णमासीषु सर्वासु निषिद्धं पिण्डपातनम् ।
वर्जयित्वा प्रोष्ठपदीं यथा दर्शस्तथैव सा" इति ॥

 अस्य समूलत्वं विमृश्यम् ।

"संक्रान्तावुपरागे च पर्वोत्सवमहालये ।
निवपेदत्र पिण्डांस्त्रीन्" ॥

 इति प्रजापतिवाक्यं तु माधवादिभिरलिखनान्निर्मूलम् । समूलत्वेऽपि न पिण्डदानविधायकं, किंत्वशक्तस्यैकपार्वणश्राद्धविधायकत्वेनोपपादनीयम् ।

 स्मृतिरत्नावल्याम्--

"पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ।
श्राद्धं कुर्यात्प्रयत्नेन पिण्डनिर्वपणादृते" इति ॥

 संग्रहे--

"नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे ।
गण्डवैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः" इति ॥

 नन्दाः प्रतिपत्षष्ठ्येकादश्यः । अश्वः सप्तमी । कामस्त्रयोदशी । आरो भौमः । भृगुः शुक्रः । अग्निपितृकालभानि कृत्तिकामघाभरण्यः । पातो व्यतीपातः ।

नारदः--

"कृत्तिकासु च नन्दासु भृगुवारे त्रिजन्मसु ।
पिण्डदानं न कर्तव्यं कुलक्षयकरं यतः" इति ॥

 त्रिजन्मानि जन्मनक्षत्रं दशमैकोनविंशे च नक्षत्रे

 यत्तु--"कर्तुश्च पुत्रदाराणां त्रिजन्मर्क्षाणि वर्जयेत्" ।