गयाप्राप्तौ प्रासङ्गिकम् ।
"गयां प्रसङ्गतो गत्वा मातुः श्राद्धं समाचरेत्" इतिवचनात् । |
तेन मृतमातृको गयायां तत्पार्वणमात्रं कुर्यात् । तच्च फल्गुविष्णुपदाक्षय्यवटेष्विति केचित् । आद्यान्त्ये एत्येवेत्यन्ये । मध्यमान्त्ये इत्यपरे । संकोचे प्रमाणाभावात्तत्र तु श्राद्धानि सर्वाणि कार्याणीति युक्तमिति सिन्धौ । तीर्थश्राद्धादि विधवयाऽपुत्रया कार्यं न सपुत्रया ।
"सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचन" इति स्मृतेः । |
अनुपनीतेनापि कार्यम् ।
"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु" । |
इतिप्राप्ततीर्थश्राद्धमुपक्रम्योक्तेः । जीवत्पित्राऽपि कर्तव्यम् ।
"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे । |
श्राद्धविधिस्तु पूर्वोक्ततीर्थश्राद्धविधिवदिति ।
तथा कालविशेषेऽपि श्राद्धं कार्यमित्याह याज्ञवल्क्यः--
"अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । |
द्रव्यं पायसादि । ब्राह्मणो वक्ष्यमाणलक्षणः । तयोः संपत्ती इति द्विवचनान्तः पाठ इति केचित् । एकवचनान्तः पाठः । द्रव्यब्राह्मणसंपत्तिर्यस्मिन्काल इति बहुव्रीहिरिति माधवस्मृतिचन्द्रिकाकारौ । द्रव्यमित्यसमस्तमिति विज्ञानेश्वरः ।
तथाऽन्यत्रापि--
"आषाढ्यामथ कार्तिक्यां माध्यां मन्वन्तरादिषु । |
अयनद्वयं मकरकर्कसंक्रमौ । विषुवत्तुलामेषसंक्रमौ । सूर्यसंक्रम इत्यनेनैव सिद्धेऽत्र श्राद्धमशक्तेनापि सर्वथा कार्यमितिप्रदर्शनार्थमयनविषुवयोः पृथङ्निर्देशः । व्यतीपातो योगेषु प्रसिद्धः । तिथिनक्षत्रविशेषप्रयुक्तो वा ।
एतल्लक्षणं तु स्मृतिचन्द्रिकायां वृद्धमनुराह--
"श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तकैः । |