रेवतीचित्रानूराधा मृदूनि । रोहिण्युत्तरात्रयं च ध्रुवाणि । हस्ताश्विनीपुष्याभिजितः क्षिप्राणि ।
ज्योतिर्निबन्धे--
"करत्रये वैष्णवपौष्णभे चादितिद्वये चाश्विनकध्रुवेषु । |
तत्रैव विशेषः--
"आन्दोलारोहणे पुंसो द्वादशो दिवसः शुभः । |
द्वादशो दिवसः षोडशदिवसस्योपलक्षणम् । जन्मदिवसाद्द्वादशे षोडशे वा दिवसे पुंसः । त्रयोदशे कन्यायाः । अन्यस्मिन्वा ज्योतिःशास्त्रोक्तमृदुध्रुवक्षिप्रनक्षत्रादियुते शुभकाले यथाचारं कुलदेवतापूजां विधायालंकृतं शिशुं हरिद्राद्यलंकृतायां दोलायां मात्राद्याः सौभाग्यवत्यः कुलीनाः स्त्रियो योगशायिनं हरिं संस्मृत्य गीतवाद्यादिघोषे क्रियमाणे प्राक्शिरसं शाययेयुः ।
इति दोलारोहणम् ।
अथ दुग्धपानम् ।
श्रीधरीये--
"एकत्रिंशे वासरे वा द्वितीये जन्मर्क्षे वा शुद्धलग्नेऽनुकूले । |
शङ्ख इति तृतीयार्थे सप्तमी । धात्री पूज्यपूजां विधाय शिशूनां वक्त्रे शङ्खेन क्षीरं संनिदध्यादित्यन्वयः । संनिदध्यात्पाययेत् ।
दुग्धलक्षणं मेधातिथिनिबन्धे--
"गवां च दुग्धं प्रथमं विदध्याद्बालस्य पुष्ट्यै च तदुक्तसर्पिः । |
गवां स्वरूपं सुरेश्वरः-
"ताम्रगौस्तु विशेषेण श्वेतगौर्मध्यमा स्मृता । |
अत्र नक्षत्रादिकमाह नृसिंहः--
"उत्तरात्रयहस्तौ च त्वाष्ट्रवैष्णववासवाः । |
त्वाष्ट्रं चित्रा । वैष्णवं श्रवणः । वासवं धनिष्ठाः । पौष्णं रेवती । अश्वि