पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७२
[प्रथमकञ्चुकधारणं जलपूजनं च]
भट्टगोपीनाथदीक्षितविरचिता--
(कर्णवेधः)
 

नावश्विनीनक्षत्रम् । वरुणः शततारकाः । अदितिः पुनर्वसू । जीवनं पूर्वाषाढाः । अत्र मूलं चिन्त्यम् । ऐन्दवं मृगशिरः । मैत्रमनूराधाः । एकत्रिंशे दिवसे द्वितीये जन्मनक्षत्रे वाऽन्यस्मिन्वोक्ते नक्षत्रे षष्ठीरिक्ताष्टमीदर्शव्यतिरिक्ततिथौ बृहस्पतिशुक्रचन्द्रबुधान्यतमे वासरे कुलदेवतापूजनं विधाय माताऽन्या वा सौभाग्ययुता शिशुं दक्षिणशिरसं प्राक्शिरसं वा धृत्वा शङ्खेन गोक्षीरं पाययेत् । इति दुग्धपानम् ।

अथ प्रथमकञ्चुकधारणम् ।

ज्योतिर्निबन्धे--

"अश्विनीत्वाष्ट्रपौष्णेज्यमित्रोत्तरकरानिले ।
सितसौम्येज्यवारेषु जयापूर्णादिने तथा ॥
शुभे मूहूर्ते पूर्वाह्णे चन्द्रताराबलान्विते ।
शिशूनां धारयेत्तत्र कञ्चुकं चित्रवर्णकम् ।
नीलवर्णं शिशूनां च मुख्यं प्रथमकञ्चुकम्" इति ॥

 इज्यस्तिष्यः । करो हस्तः । अनिलः स्वाती । सितः शुक्रः । जयास्तृतीयाष्टमीत्रयोदश्यः । पूर्णाः पञ्चमीदशमीपञ्चदश्यः । यद्यप्यविशेषात्पञ्चदशीत्वेनामावास्याया अपि प्राप्तिस्तथाऽपि तस्याः शुभकर्मसु सामान्यतो निषिद्धत्वात्त्याज्येति द्रष्टव्यम् । एवं पूर्णमास्याः पूर्वार्धमपि त्याज्यम् । तस्य भद्रात्वेन निषिद्धत्वात् ।

अथ जलपूजनम् ।

 तच्च मुहूर्तचिन्तामणौ--

"कवीज्यास्तचैत्राधिमासे न पौषे जलं पूजयेत्सूतिकामासपूर्तौ ।
बुधेन्द्विज्यवारे विरिक्तातिथौ हि श्रुतीज्यादितीन्द्वर्कनैर्ऋत्यमैत्रे" इति ॥

 कविः शुक्रः । इज्यो गुरुः । तयोरस्ते, चैत्रेऽधिमासे पोषे च जलं न पूजयेदित्यर्थः । अनेनावशिष्टा मासा अभ्यनुज्ञाता भवन्ति । मासपूर्तौ माससमाप्तौ सत्यां कार्यं न प्रथमे मासि । विरिक्तातिथौ रिक्ताभिन्नतिथौ । श्रुतिः श्रवणः । इज्यस्तिष्यः । अदितिः पुनर्वसू । इन्दुर्मृगशिरः । अर्को हस्तः । नैर्ऋत्यं मूलम् । मैत्रमनूराधाः । इति जलपूजनम् ।

अथ कर्णवेधः ।

तत्र बृहस्पतिः--

" जन्मतो दशमे वाऽह्नि द्वादशे वाऽथ षोडशे ।
सप्तमे मासि वा कुर्याद्दशमे मासि वा पुनः" इति ॥