इति धौम्येनोक्तस्य भोक्तुः प्रायश्चित्तस्य निर्विषयत्वापत्तेः । नैमित्तिकर्मोत्तरमपि तदहःकर्तव्यमाह हारीतः--
"जाते कुमारे पितॄणामामोदात्पुण्यं तदहस्तस्मात्तिलपूर्णानि पात्राणि |
ब्राह्मे--
"देवाश्च पितरश्चैव पुत्रे जाते द्विजन्मनाम् । |
बृहद्याज्ञवल्क्यः--
"कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः । |
वसिष्ठः--
"दत्त्वा गोभूहिरण्यादि ततो लग्नं निरीक्षयेत् । |
ततश्च दैवज्ञोक्तदुःस्थानस्थितग्रहप्रीत्यर्थं शक्त्योचितदानानि कुर्यात् । संकल्पपूर्वकं जपपूजादौ ब्राह्मणान्नियुञ्जीतेत्यादि शक्त्यनुसारेण कर्तव्यम् ।
पितुः पातित्यादौ विशेषमाहाऽऽश्वलायनः--
"पत्यौ मृते वा पतिते संन्यस्ते वा विदेशगे | |
श्रेष्ठेनेति तादृश एव प्रतिनिधिरित्येवमर्थम् । दीक्षितेन तु दीक्षाकाले स्वयमपि जातकर्म न कार्यम् । नापि तत्प्रतिनिधिनाऽन्येन । किंत्ववभृथान्ते विसृष्टदीक्षः स्वयमेव कुर्यादित्यर्थः । अत्र त्रीणीत्याश्वलायनानामनुकूलं, तेषामेवानवलोभनरूपतृतीयसंस्कारसत्त्वात् । न चाऽऽश्वलायनातिरिक्तविषयेऽपि