जातकर्मसंस्कारमादाय त्रीणि श्रेष्ठो न कारयेदित्येतस्य वचनस्य प्रवृत्तिरस्त्विति वाच्यम् ।
"श्रेष्ठः कनिष्ठहस्तेन जातकर्मादि कारयेत्" । |
इति वसिष्ठवचनविरोधापत्तेः । अकृत इति निषिद्धप्रतिनिधिना कृतमित्यकृततामापन्नं कर्मातिक्रान्तं केनापि निमित्तेन कंचित्कालं स्वयं कर्तुमसमर्थोऽपि नान्येन कारयेत् । स्वास्थ्योत्तरं दानसहिताभिर्ब्राह्मणाशीर्भिः सोत्कर्षं पुत्रसंस्कारं कुर्यादित्यर्थः । महारोगार्तस्तु सत्यपि सामर्थ्ये स्वयं जातकर्म न कुर्यात् ।
"रोगार्दितस्तु तत्कालं स्पृशन्नन्येन कारयेत् । |
आशौचापगमे जातकर्मानुष्ठाने नक्षत्राण्याह वसिष्ठः--
"मृदुध्रुवक्षिप्रचरेषु भेषु चारिक्तपर्वाख्यदिनेषु कार्यम् । |
मृद्वादिनक्षत्राण्याह श्रीधरः--
"रोहिण्युत्तरभं स्थिरं गिरिशमूलैन्द्रोरगा दारुणं |
उत्तरशब्देनोत्तरात्रयम् । गिरिशमार्द्रा । ऐन्द्रं ज्येष्ठा । उरगमाश्लेषा । अश्विनावश्विनी । दिनेशो हस्तः । अनलः कृत्तिकाः । ऐन्द्राग्नं विशाखे । पूर्वशब्देन पूर्वात्रयम् । अन्तकं भरणी । त्वाष्ट्रं चित्रा । अन्त्यं रेवती । मैत्रमनूराधाः । शतोडु शततारानक्षत्रम् । वसुशब्देन धनिष्ठाः । अदितिः पुनर्वसू । एतच्च जन्मदिवसेऽमासंक्रान्त्यादिसत्त्वे न कार्यम् ॥
"अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्" इतिगर्गोक्तेः । |
एतच्चाधिके मासेऽपि कार्यम् । तथा च कालादर्शेऽधिमासे कर्तव्यानि प्रकृत्य-- "सीमन्ते पुंसवे श्राद्धं द्वावेतौ जातकर्म च" इति ।
एतौ सीमन्तपुंसकौ । यमेनाप्युक्तम्--
"गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके । |