उक्तापेक्षया । शुक्लपक्षे चतुर्थीचतुर्दश्योः पक्षच्छिद्रात्वेन रिक्तात्वेन वा निषिद्धयोः पौर्णमास्याश्च केषांचिन्मतेन ग्राह्यत्वमुक्तं कालनिर्णये--
"शुभसंस्थे निशानाथे चतुर्थीं च चतुर्दशीम् । |
पौर्णमासीसाहचर्याच्चतुर्थीचतुर्दश्यौ शुक्लपक्षसंबन्धिन्यावेव ग्राह्ये ।
वारानाह बृहस्पतिः--
"पुरुषग्रहवाराः स्युः शुभाः सीमन्तकर्मणि । |
पुरुषग्रहा रविभौमगुरवः । स्त्रीग्रहौ सोमभृगू । नपुंसकौ शनिबुधौ ।
उक्तं च ज्योतिर्निबन्धे--
"पुरुषा रविगुरुभौमा नपुंसकाख्यो बुधोऽर्कपुत्रश्च । |
नक्षत्राण्याह बृहस्पतिः--
"रोहिण्यैन्दवमादित्यपुष्यहस्तोत्तरात्रयम् । |
ऐन्दवं मृगशिरः । आदित्यं पुनर्वसू ।
कालविधाने--
"सीमन्तोन्नयनं कार्यं शुभांशे शुभलग्नके । |
कुलीरः कर्कः । मृगः सिंहः ।
"कुलीरं मिथुनं कन्यां हित्वा शेषाः शुभावहाः " । |
इति बृहस्पतिनोत्तरार्धं पठितम् । लग्नादिकं तु ज्योतिःशास्त्रादितोऽवगन्तव्यम् ।
नारदः--
"विप्रक्षत्रिययोः कुर्याद्दिवा सीमन्तकर्म तत् । |
एतच्च सकृदेव कर्तव्यं न तु प्रतिगर्भम् ।
प्रथमगर्भाधारसंस्कारकत्वस्यैव ज्ञापितत्वात् ।
"सकृच्च कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । |
इति हारीतोक्तेश्च । अत्र द्विजग्रहणाच्छूद्रैः प्रतिगर्भमावर्तनीयम् ।