पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२२
[सीमन्तोन्नयनम्]
भट्टगोपीनाथदीक्षितविरचिता--

उक्तापेक्षया । शुक्लपक्षे चतुर्थीचतुर्दश्योः पक्षच्छिद्रात्वेन रिक्तात्वेन वा निषिद्धयोः पौर्णमास्याश्च केषांचिन्मतेन ग्राह्यत्वमुक्तं कालनिर्णये--

"शुभसंस्थे निशानाथे चतुर्थीं च चतुर्दशीम् ।
पौर्णमासीं प्रशंसन्ति केचित्सीमन्तकर्मणि" इति ॥

 पौर्णमासीसाहचर्याच्चतुर्थीचतुर्दश्यौ शुक्लपक्षसंबन्धिन्यावेव ग्राह्ये ।

 वारानाह बृहस्पतिः--

"पुरुषग्रहवाराः स्युः शुभाः सीमन्तकर्मणि ।
मध्यौ स्त्रीग्रहवारौ तु वर्जयेत्तु नपुंसकौ" इति ॥

 पुरुषग्रहा रविभौमगुरवः । स्त्रीग्रहौ सोमभृगू । नपुंसकौ शनिबुधौ ।

 उक्तं च ज्योतिर्निबन्धे--

"पुरुषा रविगुरुभौमा नपुंसकाख्यो बुधोऽर्कपुत्रश्च ।
नार्यौ भृगुचन्द्रमसौ ग्रहस्वभावस्थितिः कथिता" इति ॥

 नक्षत्राण्याह बृहस्पतिः--

"रोहिण्यैन्दवमादित्यपुष्यहस्तोत्तरात्रयम् ।
पौष्णं वैष्णवमं चैव सीमन्ते दशकं स्मृतम्" इति ॥

 ऐन्दवं मृगशिरः । आदित्यं पुनर्वसू ।

कालविधाने--

"सीमन्तोन्नयनं कार्यं शुभांशे शुभलग्नके ।
कुलीरमृगकन्याश्च वर्ज्याः शेषाश्च शोभनाः" इति ॥

 कुलीरः कर्कः । मृगः सिंहः ।

"कुलीरं मिथुनं कन्यां हित्वा शेषाः शुभावहाः " ।

इति बृहस्पतिनोत्तरार्धं पठितम् । लग्नादिकं तु ज्योतिःशास्त्रादितोऽवगन्तव्यम् ।

 नारदः--

"विप्रक्षत्रिययोः कुर्याद्दिवा सीमन्तकर्म तत् ।
वैश्यशूद्रकयोरेतद्दिवा निश्यपि केचन" इति ॥

 एतच्च सकृदेव कर्तव्यं न तु प्रतिगर्भम् ।

 प्रथमगर्भाधारसंस्कारकत्वस्यैव ज्ञापितत्वात् ।

"सकृच्च कृतसंस्काराः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेत्" ॥

 इति हारीतोक्तेश्च । अत्र द्विजग्रहणाच्छूद्रैः प्रतिगर्भमावर्तनीयम् ।