पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सीमन्तोन्नयनम्]
८२१
संस्काररत्नमाला ।
अत्रिः--

"आधानादष्टमे मासि सीमन्तोन्नयनं भवेत् ।
नवमे मासि वा कुर्याद्यावद्गर्भविमोचनम्" इति ॥

शङ्खः--

"गर्भस्पन्दने सीमन्तोन्नयनं यावद्वा न प्रसवः" इति ।

 अत्र मासः सावनो ग्राह्यः ।

"सीमन्तः सावने मासि चतुर्थेऽप्यथवाऽष्टमे" इति वसिष्ठोक्तेः ।

 बृहस्पतिस्तु सौरं मासमाह सीमन्तं प्रकृत्य--

"सौरेणैव चतुर्थे स्यान्मासे षष्ठेऽष्टमेऽपि वा" इति ।

 सावनादिलक्षणमुक्तं श्रीधरीये--

"त्रिंशद्दिनं सावनमासमाहुर्नाक्षत्रमिन्दोर्भगणभ्रमेण ।
दर्शावधिं मासमुशन्ति चान्द्रं सौरं तथा भास्करराशिभोगात्" इति ॥

 अत्र शुक्लपक्ष एव मुख्यः । आपूर्यमाणपक्ष इति गृह्योक्तत्वात् । असंभवेऽन्यांशं विना कृष्णपक्षो ग्राह्यः । तथा च बृहस्पतिः--

"शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना " इति ।

 तिथयः कालविधाने--

"पक्षच्छिद्राश्च रिक्ताः पितृतिथिमपहायापराः स्युः प्रशस्ताः" इति ।

 पक्षच्छिद्रास्तद्वर्ज्या नाडिकाश्च वसिष्ठ आह--

"चतुर्दशी चतुर्थी च अष्टमी नवमी तथा ।
षष्ठी च द्वादशी चैव पक्षच्छिद्राह्वया इमाः ॥
क्रमादेतासु तिथिषु वर्जनीयाश्च नाडिकाः ।
भूताष्टमनुतत्त्वाङ्कदशशेषास्तु शोभनाः" इति ॥

 भूतानि पञ्च । मनवश्चतुर्दश । तत्त्वानि पञ्चविंशतिः । अङ्का नव । कश्यपस्तु षष्ठ्यष्टमीद्वादशीनामेव पक्षच्छिद्रात्वमुक्त्वा सर्वसाधारण्येन दशैव घटिका वर्जनीया इत्याह--

"अष्टमी द्वादशी षष्ठी पक्षच्छिद्रास्तु तासु च ।
मङ्गले सर्वदा त्याज्या न्यू(नू)नं हि दश नाडिकाः" इति ॥

 उभयत्रापि घटिकास्तिथेराद्या एव । प्रथमातिक्रमे कारणाभावात् । अनन्तरोदाहृतकालविधानवाक्यस्य वसिष्ठोक्तपक्षच्छिद्राख्यतिथिपरत्वे पक्षच्छिद्रात्वेनैव चतुर्थ्यादीनां निषेधे सिद्धे रिक्तात्वेन पुनर्निषेधो दोषातिशयार्थः । कश्यपोक्तपक्षच्छिद्राख्यतिथिपरत्वे तु चतुर्थ्यादीनां पक्षच्छिद्रात्वाभावाद्रिक्तात्वेन निषेध आवश्यक एवेति द्रष्टव्यम् । पितृतिथिरमावास्या । अपरा अन्या