पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सीमन्तोन्नयनप्रयोगः]
८२३
संस्काररत्नमाला ।

 सीमन्तोन्नयनात्पूर्वं प्रसूताया विशेषमाह गार्ग्यः--

"यदि सीमन्ततः पूर्वं प्रसूता स्यात्तु भामि[१]नी ।
पेटिकायां तदा जातं स्थाप्य संस्कारमाचरेत्" इति ॥

 अत्रापि गुरुशुक्रास्तमलमासाद्यनिषेधोऽमासंक्रान्त्यादिनिषेधः कर्त्रन्तरविधिश्च द्रष्टव्यः ।

 अत्र भोजने प्रायश्चित्तमुक्तं धौम्येन--

"ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा ।
जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत्" इति ॥

 अत्र ब्रह्मौदनाङ्गभोजनमिव सीमन्ताङ्गभोजनमेव निमित्तत्वेन विवक्षितम् । अतस्तद्दिने तद्गृहे भोक्तुः प्रायश्चित्तमिति पारिजातोक्तिरपास्ता । सोमसाहचर्याद्ब्रह्मौदनमग्न्याधानाङ्गभूतं ग्राह्यमिति केचित् । वस्तुतस्तु सोमसीमन्तोन्नयनादिषु यथा केवलभोजनार्थं प्रवृत्तं प्रति प्रायश्चित्तविधानं तत्सदृशकेवलब्रह्मौदनभोजनार्थं प्रवृत्तं प्रत्येवेदमपि प्रायश्चित्तमित्येव वक्तव्यम् । अन्यथा वैरूप्यापत्तेः । एतादृशं ब्रह्मौदनमाश्वलायनोक्तोपनयनसंबद्धमेव । अग्न्याधानाद्यङ्गभूतब्रह्मोदनं न तथा । तत्र भोजनातिरिक्तस्य प्रभूतकर्मणः सत्त्वेन केवलतदर्थप्रवृत्तेरभावात् । न च सांतपनात्मकसंस्कारभोजनप्रायश्चित्तेनैव तत्सिद्धावेतत्प्रायश्चित्तविधानं व्यर्थमिति वाच्यम् । अत्राऽऽपदि प्राणायामोपवासयोः सामान्यतः प्राप्तयोर्बाधनार्थत्वेन सार्थक्यसंभवात् । एवं च ब्रह्मौदनग्रहणेनाऽऽश्वलायनाद्युक्तस्यौपनायनिकब्रह्मौदनस्यैव ग्रहणं युक्तम् । इदं च ज्ञानतः । अज्ञानाद्भोजने तु ऋग्विधानोक्तम्--

"अरा इवेज्जपेन्मन्त्रं शतवारं शिवालये ।
सीमन्ते च यदा भुङ्क्ते मुच्यते किल्बिषात्ततः" इति ॥

अथ प्रयोगः ।

 सावने सौरे वा चतुर्थे मासि पञ्चमे षष्ठे सप्तमेऽष्टमे नवमे वा यावद्गर्भविमोचनं तावत्पर्यन्ते काले वा शुक्लपक्षेऽसंभवेऽन्त्यांशरहिते कृष्णपक्षे चतुर्थीषष्ठ्यष्टमीनवमीद्वादशीचतुर्दश्यमावास्याव्यतिरिक्ततिथावेतदसंभवे चतुर्दशीचतुर्थ्यष्टमीनवमीषष्ठीद्वादशीनां क्रमेण पञ्चाष्टौ चतुर्दश पञ्चविंशतिर्नव दशेत्याद्या घटिकाः साधारण्येन दश घटिका वा विहाय तास्वपि रविभौमगुर्वन्यतमे वासरे संकटे सोमभृग्वन्यतरेऽपि वासरे रोहिणीमृगशिरः


  1. क.ख.च. मिनि । पे ।