प्रकाशम् ' (श्वे, 6-18) इति श्रुतेः। विष्णुः सर्वव्यापकः। जिष्णुः जयशीलः । 'नाविजित्य निवर्तते' (रा. 2-2-37) इति रामः स्तूयते रामायणे। शचीपतिः इन्द्राणीपतिः इन्द्रः इन्द्ररूपः, इन्द्रान्तर्यामीति वा ॥५६॥
वंशी वंशधरो लोकः विलोको मोहनाशनः ।
स्वरावो रवो रावो बलो बालबलाहकः ॥ ५७ ॥
वंशी- सर्वं जन्तुजातं स्वसन्तानभूतं यस्य सः । वंशो वेणुरस्यास्तीति वा । वंशधरः----स्वसन्तानभूतं जगत् धारयतीति तादृशः । वंशीधर इति पाठे मुरलीधरः । लोकः । लोक्यत इति लोकः । 'लोकृ दर्शने' इति धातोः कर्मणि घञ् । योगिभिः साक्षात्क्रियमाणः । विलोकः विविधो लोको यस्य सः । सर्वलोकाधिपतिरित्यर्थः । मोहनाशनः ---- अज्ञाननाशकः । रवरावः शब्दप्रतिपाद्यः । रवेण शब्देन राव्यते ज्ञाप्यत इति व्युत्पत्तेः। श्रुत्येकवेद्य इत्यर्थः । रवः-- शब्दस्वरूपः । रावः--रावयति शब्दाययति इति राव: चतुर्मुखादीनां वेदाध्यापक इत्यर्थः । बलमस्यास्तीति बलः । बालबलाहकः- बालमेघश्यामकः । यद्वा बालानां गोपशिशूनां बलाहकः मेघवदभीष्टवर्षी योगक्षेमविधायक इत्यर्थः । 'योगक्षेमं वहाम्यहम् ' (गी. 9-22) इति स्मृतेः ॥५७॥
शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः ।
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ ५८ ॥
शिवः – मङ्गलकरः । रुद्रः- भक्तिद्रुतहृदयान् सानन्दबाष्पं रोदयतीति रुद्रः ।।
57 a . ङ वंशीधरो
57 ab क ङ...लोकविलोको
57 d क ङ.. बलो बालो बलाहकः
ख घ.. बालो बाल
58 b. ख लाङ्गूली लाङ्गुलाश्रयः
इ. ङ लाङ्गुली लाङ्गुलाश्रयः