पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
गोपालसहस्रनामस्तोत्रम्


 'आह्वादशीतनेत्राम्बुः पुलकीकृतगात्रवान् ।
 सदा परगुणाविष्टो द्रष्टव्यः सर्वदेहिभिः॥'

इति विष्णुतत्त्वे भक्तस्यावस्था वर्णितात्रानुसन्धेया। नलः-नलचक्रवर्तिस्वरूपः । रलयोरभेदात् नर इति वा । पुरुष इत्यर्थः । न लीयते क्षीयत इति वा नलः । नीलः--नीलवर्णः । भगवतो नीलमेघश्यामलत्वात् । लाङ्गली-हलायुधो बलरामः । लाङ्गलाश्रयः- स एव । पारदः । संसारपारभूतं मोक्षं ददाति इति पारदः। मोक्षप्रद इत्यर्थः । 'मोक्षमिच्छेत् जनार्दनात्’ इति स्मृतेः। पावन:--पावयतीति पावनः चालनः । मीषास्माद्वातः पवते' (तै. बा. 32) इति श्रुतेः । पवित्राणां पवित्रत्वापादक इति वा। हंस:-हंसरूपी, कृतहंसावतारः । हंसारूढः -हंसमारूढः। जगत्पतिः जगतां पतिः स्वामी ॥ ५८ ॥


 मोहिनीमोहनो मायी महामायो महामखी ।
 वृषो वृषाकपिः कालः कालीदमनकारकः ॥ ५९ ॥

मोहिनीमोहनः- मोहिन्यवतारेण असुराणां व्यामोहजनकः । मायी --- माया विचित्रसृष्टीकरी प्रकृतिः अस्यास्तीति मायी। 'मायां तु प्रकृतिं विधान्मायिनं तु महेश्वरम्' (श्वे. 4-10) इति श्रुतिः। महामायः महती माया आश्चर्यजनकशक्तिः यस्य सः । महामखी- महान्तो मखा: यज्ञा आराध्यतया अस्य सन्तीति महामखी। वृषः --- आश्रितानामभीष्टवर्षुकः । वृषाकपिः सर्वकामानां वर्षणात् वृषः धर्मः कात् तोयात् भूमिमपादिति कपिर्वराहः । धर्मरूपत्वात् वराहरूपत्वाच्च वृषाकपिः ।  'कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।
 तस्मात् वृषाकपिं प्राह काश्यपो मां प्रजापतिः ॥"


 59 a ङ मोहनीमोहनो
 59 b ङ महामायी महामखः

  'महामाया महामखः' इति मुद्रितपुस्तके।