पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
गोपालसहस्रनामस्तोत्रम्



 प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः ।
 गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ ५४॥

 कावेरी नर्मदा ताप्ती गण्डकी सरयूस्तथा ।

 प्रपञ्ची --- प्रपञ्चशरीरकः। पञ्चरूपः-- पञ्च रूपाणि पर - व्यूह - विभव - हार्द - अर्चात्मकाः दिव्यमङ्गलविग्रहाः यस्य सः। लतागुल्मः - लतागुल्मप्रचुरेषु प्रदेशेषु विहारी। गोपतिः -- वाक्पतिः, भोगभूमेः श्रीवैकुण्ठस्य पतिर्वा । गङ्गा --- गङ्गास्वरूपः । यमुनारूपः -- यमुनास्वरूपः । गोदावेत्रवती-- प्रभृतिनदीस्वरूपश्च । ' स्रोतसामस्मि जाह्नवी' (गी. 10-31) इति गीता ॥ ५४ ॥

 राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ ५५ ॥

 राजसस्तामसस्सत्त्वी-सत्त्वरजस्तमोगुणानां प्रवर्तकः। परमात्मप्रेरणयैव गुणत्रयं स्वकार्ये प्रवर्तते इति भावः । सर्वाङ्गी सर्वा अन्या देवताः अङ्गानि यस्य सः । 'अङ्गान्यन्या देवता' (ते. उ.शि. 10) इति श्रुतेः । सर्वलोचन:- सर्वद्रष्टा । सर्वत्र लोचनं यस्येति विग्रहः ॥ ५५ ॥


 सुधामयोऽमृतमयो योगिनीवल्लभः शिवः ।
 बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ ५६ ॥

 सुधामयोऽमृतमयः -- अमृतस्वरूपः। योगिनीवल्लभः- महाप्रभावशालिन्याः लक्ष्म्याः पतिः। योगिनीनां कात्यायनीव्रतकृशानां गोपीनां वल्लभः प्रिय इति वा । शिवः --- मङ्गलकरः। बुद्धः – अतिरोहितनित्यप्रकाशः। बुद्धावतारो वा। बुद्धिमतां श्रेष्ठ:--- बुद्धिमतामग्रगण्यः । बुद्धिमतां मध्ये श्रेष्ठः तेषामपि बुद्धिप्रकाशकः। तं ह देवमात्मबुद्धि-


 54 b मुद्रितपुस्तके ’गोपितः' इति पाठः
 54 a ख.ङ.नर्मदा तापी
 54 b क. सरजूरजः
 55. ङ सरयूरजः
 56 b क. योगीनां वल्लभः